________________
परिशिष्ट (३)
-
जीवनाथं कुलं त्यक्त्वा, योऽति दूरतरं व्रजेत् ।
लोकान्तर गतस्येव , किं तस्य जीवितेन वै ॥२॥ तदिहैव दयावीरं हम्मीरदेवं समाश्रित्य तिष्ठामीति परामृश्य स यवनो महिमसाहि हम्मीरदेव मुपागम्याह । महिमसाहिरुवाच । देव, विनाऽपराधं हन्तुमुद्यतस्य स्वामिनस्वासेनाहं त्वां शरणमागतोऽस्मि । यदि मां रक्षितु शक्नौषि तर्हि विश्वासं देहि । न चेदितोऽप्यन्यत्र गच्छामि। राजोवाच। मम शरणागतं त्वां यमोऽप मयि जीवति पराभवितु न शक्नोति । तदभयं तिष्ठ। ततस्तस्य राज्ञो वचनेन स यवनस्तस्मिन् रणस्तम्भनाम्नि दुर्गे निश्शंक मुवास । क्रमेण तमदीनराजस्तत्रावस्थितं विदित्वा परम सामर्षः करि तुरग पदातिपदाघातैर्धरित्री चालयन् कोलाहलैर्दिशो मुखरयन् कियद्भि रपि वासरै लंधित वर्मादुर्गद्वार मागत्य शरासारैः प्रलय धनवर्ष दर्शयामास । हम्मीरदेवोऽपि परिखा गम्भीर चतुर्मेखलं कुन्तदन्तुरित प्राकार शेखरं पताका प्रबोधित द्वारश्रियं दुर्ग कृत्वा ज्याघात कर्णकटुकै बर्बाणैर्गगगन मन्धीकृतवान् । प्रथम युद्धान्तरं अदीनराजेन हम्मीरदेवम्प्रति दूतः प्रहितः। दूत उवाच। राजन् हन्मीरदेव, श्रीमान् अदीनराजस्त्वामादिशति यन्ममापथ्य कारिणं महिमसाहिं परित्यज्य देहि । यद्येनं न ददासि तदा श्वस्तने प्रभाते तव दुर्ग खुराघातैश्चूर्णवशेषं कृत्वामहिमसाहिना सह त्वामन्तक पुरं नेष्यामि। हम्मीरदेव उवाच । रे दूत, त्वमबध्योऽसि ततः किं करवाणि। अस्योत्तरं तव स्वामिने खङ्गधाराभिरेव दास्यामि न वचोभिः । ममशरणागतं यमोऽपि वीक्षितु न शक्नोति किम्पुनरदीन
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org