________________
हम्मीरायण राजः। ततोनिर्भित्सते दूते गते सति अदीनरोजो युद्धसम्बद्धरोषो बभूव। एवमुभयोरपि बलयोयुद्धे प्रवर्त्तमाने त्रीणि वर्षाणि यावत् प्रत्यहं सम्मुखाः पराङ्मुखा प्रहारिणः पराभूताः हन्तारो हताश्च परस्परं योधा बभूवुः। पश्चादर्डावशिष्ट सुभटे अदीन सैन्ये दुर्गे ग्रहीतुमशक्ये च अदीनराजः परावृत्य निजनगर गमनाकाङ क्षी बभ व । तंच भग्नोद्यमं दृष्ट्वा रायमल्ल रामपाल नामानौ हम्मीरदेवस्य द्वौ सचिवौ दुष्टावदीन राजमागत्य मिलितौ। तावूचतुः। अदीनराज, भवता क्वापि न गन्तव्यम् । दुर्गे दुर्भिक्ष मापतितम् । आवां दुर्गस्य मर्मज्ञौ श्वः परश्वो वा दुर्ग ग्राहियिष्यावः। ततस्तौ दुष्ट सचिवौ पुरस्कृत्य अदीनराजन दुर्गद्वाराण्यवरुद्धानि । तथा संकट दृष्ट्वा हम्मीरदेवः स्वसैनिकान् प्रत्युवाच। रे रे जाजमदेव प्रभृतयो योधाः, परिमितबलोऽप्यहं शरणागत करुणया प्रवृद्ध बलेनाप्य दीनराजेन समं यात्स्यामि । एतच्च नीतिविदामसम्मतं कर्म। ततो यूयं सर्वे दुर्गाद् बहिभूय स्थानान्तरं गच्छत । ते ऊचुः। देव, भवान्निरपराधो राजा शरणागतस्य करुणया संग्रामे मरण मंगीकुरुते । वयं भवदाजीव्यभुजः कथमिदानी भवन्तं स्वामिनं परित्यज्य कापुरुषत्व मनुसरामः। किंच श्वस्तनप्रभाते देवस्य शत्रु हत्वा प्रभोमनोरथं साधयिष्यामः। यवनस्त्वयं वराकः प्रहीयताम् । तेन रक्षणीय रक्षा संभवति यतस्तद्रक्षानिमित्तकोऽयमारम्भः । यवन उवाच । देव किमर्थं ममैकस्य विदेशिनो रक्षार्थ सपुत्र कलत्रां स्वकीय राज्य विनाशयिष्यसि । ततो मां त्यज देहि । राजोवाच । यवन, मामेवं ब्रूहि । किंच यदि किंचिन्मन्यसे निर्भयस्थानं तदा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org