________________
परिशिष्ट (३) त्वां प्रापयामि। यवन उवाच। राजन् , मामैवंब हि । सर्वेभ्यः प्रथमं मयैव विपक्षशिरसि खङगप्रहारः कर्तव्यः। राजोवाच स्त्रियः परं बहिः क्रियन्ताम् । स्त्रियःऊचुः। कथं स्वामी शरणागतरक्षणार्थं संग्राम मंगीकृत्य स्वर्गयात्रा महोत्सवे प्रवृत्तेऽस्मान् बहिः कत्तमिच्छति । कथं प्राणपतेविना भूतले स्थास्यामः । यतः--
मा जीवन्तु स्त्रियोऽनाथा, वृक्षण च विना लताः। साध्वीनां जगतिप्राणाः पतिप्राणानुगामिनः ॥३।। ततो वयमेव वीरस्त्री जनोचितं हुताशन प्रवेश माचरिष्यामः। एवम् ;
भटः रंगीकृतं युद्ध, स्त्रीभिरिष्टो हुताशनः ।
राज्ञो हम्मीरदेवस्य, पराथं जीवमुज्झतः॥४॥ ततः प्रभाते युद्धे वर्तमाने हम्मीरदेव स्तुरगारूढः कृत सन्नाहो नेज सुभट सार्थ सहितः पराक्रम कुर्वाणो दुर्गानिस्सृत्य खङ्गधाराहार विपक्षवाजिनः पातयन् कुञ्जरान घातयन् रथान् निपातयन् बंधान् नर्तयन् रुधिरधारा प्रवाहेणमेदिनीमलंकुर्वन शरशकलेत सर्वाङ्गस्तुरगपृष्ठे त्यक्तप्राणः सन्मुख ; संग्रामभूमौ निपपात पूर्णमण्डल भेदीच बभूव । तथाहि :--
ते प्रसादा निरुपमगुणास्ताः प्रसन्नास्तरुण्यो, राज्यं तच्च द्रविण बहुलं ते गजास्ते तुरङ्गाः । त्यक्तु यन्न प्रभवति नरः किश्चिदेकं परार्थे, सर्व त्यक्त्वा समिति पतितो हन्त हम्मीरदेवः॥५॥
॥ इति पुरुषपरीक्षायां दयावीर कथा ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org