________________
परिशिष्ट (३)
fafa पंडित श्रीविद्यापति ठाकुर रचित " पुरुष परीक्षा "
के अन्तर्गत
1
श्री दयावीर कथा
-:*;
दयालुः पुरुषः श्रेष्ठः सर्वजन्तूपकारकः । तस्य कीर्त्तनमात्रेण कल्याणमुपपद्यते ॥१॥
अस्ति कालिन्दी तीरे योगिनीपुरं नाम नगरम् । तत्र च निजभुजविजित निखिल भूमण्डलः सकला राति प्रलय धूमकेतुरनेक करि तुरग पदाति समेतः संकलित जनपदो निर्जित विपक्ष नरपति सीमन्तिनी सहस्रनयन जल कल्पिता पार पारावरो रक्षित दीनोsदीनो नाम यवन राजो बभूव । स चैकदा केनापि निमेत्त ेन महिमसाहि नाम्ने सेनान्ये चुकोप । स च सेनानीस्तं प्रभु प्रकुपितं प्राण ग्राहकञ्च ज्ञात्वा चिन्तयामास । सामर्षो राजा विश्वसनीयो न भवति । तदिदानीं यावदनिरुद्धोऽस्मि तावत् क्वापिगत्वा . निज प्राणरक्षां करोमीति परामृश्य सपरिवारः पलायितः । पलायमानोऽप्यचिन्तयत् । सपरिवारस्य दूरगमन मशक्यं परिवारं परित्यज्य पलायन मपि नोचितम् । यतः :
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org