________________
हैमनूतमलघुप्रक्रिया
५५१ मुनि च मुनिं च मुनि च मुनीन् वन्दस्व । जिनं च महावीरं जिनं च पार्थ, जिनौ नमति । नारी च नारी च नायौं गच्छतः। स्यादाविति किम् ? माता च जननी, माता च धान्यस्य परिच्छेत्ता, मातृमातारौ । अत्र औकारे मातरौ माताराविति रूपे इति न सर्वस्मिन् स्यादौ सरूपता । असंख्येय इति किम् ? एकश्चैकश्च, द्वौ च द्वौ च, त्रयश्च त्रयश्च "आ दशभ्यः संख्या संख्येये"। संख्यानवाचिनस्तु भवत्येवविंशतिश्च विंशतिश्च, विंशती द्वे गवाम् ॥
त्यदादिः ।३।१।१२०॥ त्यदादिनाऽन्येन च सहोक्तौ त्यदादिरेवैकः शिष्यते । स च चैत्रश्च तौ । अयं च मुनिश्च इमौ । स्पर्धे परमिति त्यदादीनां मिथः सहोक्तौ यद् यत्पाठे परं तसदेवैकं शिष्यते । स च यश्च यौ। स च त्वं च युवाम् । त्वं च भवांश्च भवन्तौ । भवांश्च अहं च आवाम् । त्वं च भवांश्च अहं च वयम् । बहुलाधिकारात् क्वचित्पूर्वमपि-स च यश्च तौ । त्वं च भवांश्च युवाम् । एतेन सर्वादिगणे क्वचिद् अस्मच्छब्दात्परं भवतुशब्दपाठोऽपपाठः । स्त्रीपुंनपुंसकानां सहवचने स्यात्परमिति लिङ्गानुशासनात्-सा च चैत्रश्च तौ, सा च कुण्डे च सानि, स च इयं च अदश्च अमूनि ॥ __ भ्रातृपुत्राः स्वसहितृभिः ।३।१११२१॥ स्वस्रर्थेन सहोक्तो भ्रात्रथैः शब्दो 'दुहित्रथैन सहोतो पुनार्थ एका ८-अर्च्यत्वात्प्राक प्रयोगः