________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संज्ञाधिकारः
किदुहृत्य तत्सारं वक्ष्येऽहं मतिशक्तितः ।
अल्पं ग्रन्थमनल्पार्थं गणितं सारसङ्ग्रहम् ॥ १९ ॥
संज्ञाम्भोभिरथों पूर्णे परिकर्मोरु वेदिके । कलासवर्णसंरूढ लुठत्पाठीनसङ्कुले ॥ २० ॥ प्रकीर्णकमहाग्राहे त्रैराशिकतरङ्गिणि । मिश्रक व्यवहारोद्यत्सूक्तिरत्नांशपिअरे ॥ २१ ॥ क्षेत्र विस्तीर्ण पाताले खाताख्य' सिकताकुले | करणस्कन्धसम्बन्धच्छायावेला विराजिते ॥ २२ ॥ गणकैर्गुणसम्पूर्णस्तदर्थमणयोऽमलाः । गृह्यन्ते करणोपायैस्सारसङ्ग्रहवारिधौ ॥ २३ ॥ अथ संज्ञा ।
न शक्यतेऽर्थो बोद्धुं यत्सर्वस्मिन् संज्ञया विना । आदावतोऽस्य शास्त्रस्य परिभाषाभिधास्यते ॥ २४ ॥ तत्र तावत् क्षेत्रपरिभाषा ।
जलानलादिभिर्नाशं यो न याति स पुद्गलः । परमाणुरनन्तैस्तैरणुस्सोऽत्रादिरुच्यते ॥ २५ ॥ त्रसरेणुरतस्तस्माद्रथरेणुः शिरोरुहः । परमध्यजघन्याख्या भोगभूकर्मभूभुवा ॥ २६ ॥ लीक्षा तिलस्स एवेह सर्षपोऽथ यवोऽङ्गलम् । क्रमेणाष्टगुणान्येतद्वयवहाराङ्गुलं मतम् ॥ २७
= K संज्ञातोयसमा .
1M and B अल्प .
' Mद्ध (Probably a scribe's mistake for त्थ).
6 Pव.
6 K and P.
P and B-LT.
Acharya Shri Kailassagarsuri Gyanmandir
P..
For Private and Personal Use Only
4 M and B सङ्कटे.
7M and B व',
3