________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसङ्ग्रहः
गणितशास्त्रप्रशंसा। लौकिके वैदिके वापि तथा सामायिकेऽपि यः। व्यापारस्तत्र सर्वत्र सङ्ख्यानमुपयुज्यते ।। ९॥ कामतन्त्रेऽर्थशास्त्रे च गान्धवे नाटकेऽपि वा। सूपशास्त्रे तथा वैद्ये वास्तुविद्यादिवस्तुषु ॥ १० ॥ छन्दोऽलङ्कारकाव्येषु तर्कव्याकरणादिषु । कलागुणेषु सर्वेषु प्रस्तुतं गणितं परम् ॥ ११ ॥ सूर्यादिग्रहचारेषु ग्रहणे ग्रहसंयुतौ । त्रिप्रश्ने चन्द्रवृत्तौ च सर्वत्राङ्गीकृतं हि तत् ॥ १२ ॥ द्वीपसागरशैलानां सङ्ख्याव्यासपरिक्षिपः। भवनव्यन्तरज्योतिर्लोककल्पाधिवासिनाम ॥ १३ ॥ नारकाणां च सर्वेषां श्रेणीबन्धेन्द्रकोत्कराः । प्रकीर्णकप्रमाणाद्या बुध्यन्ते गणितेन ते ॥ १४ ॥ प्राणिनां तत्र संस्थानमायुरष्टगुणादयः । यात्राद्यास्संहिताद्याश्च सर्वे ते गणिताश्रयाः ॥ १५ ॥ बहुभिर्विप्रलापैः किं त्रैलोकये सचराचरे । यत्किञ्चिद्वस्तु तत्सर्वं गणितेन विना न हि ॥ १६ ॥ तीर्थकृद्यः कृतार्थेभ्यः पूज्येभ्यो जगदीश्वरैः । तेषां शिष्यप्रशिष्येभ्यः प्रसिद्धाद्गुरुपर्वतः ॥ १७ ॥ जलधेरिव रत्नानि पाषाणादिव काञ्चनम् । शुक्तेर्मुक्ताफलानीव सङ्ख्याज्ञान महोदधे : ॥ १८ ॥
1. स्यात् ; B चापि. • M and B दण्डा . 1K, M and B बद्धे.
B च. 5M and B पुरा.
M वसु.
K and M महा. GK and M °क्षिपा..
.
'K and PTC for $17.
For Private and Personal Use Only