________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः परिकर्मव्यवहारः.
इतः परं परिकर्माभिधानं प्रथमव्यवहारमुदाहरिष्यामः ।
प्रत्युत्पन्नः । तत्र' प्रथमे प्रत्युत्पन्नपरिकर्मणि करणसूत्रं यथा--
गुणयद्गुणेन गुण्यं कवाठसन्धिक्रमेण संस्थाप्य । राश्यर्घखण्डतत्स्थैरनुलोमविलोममार्गाभ्याम् ॥ १ ॥
__ अत्रोद्देशकः । दत्तान्येकैकस्मै जिनभवना याम्बुजानि तान्यष्टौ । वसतीनां चतुरुत्तरचत्वारिंशच्छता'य कति ॥ २ ॥ नव पद्मरागमणयस्समर्चिता एकजिनगृहे दृष्टाः । साष्टाशीतिद्विशतीमितवसतिषु ते कियन्तस्स्युः ॥ ३ ॥ 'चत्वारिंशच्चैकोनशताधिकपुष्यरागमणयोऽाः । एकस्मिन् जिनभवने सनवशते ब्रूहि 'कति मणयः ॥ ४ ॥ पद्मानि सप्तविंशतिरे"कस्मिन् जिनगृहे प्रदत्तानि । साष्टानवतिसहस्त्रे "सनवशते तानि कति कथय ॥ ५ ॥ "एकैकस्यां वसतावष्टोत्तरशतसुवर्णपद्मानि । एकाष्टचतुस्सप्तकनवषटुञ्चाष्टकानां किम् ॥ ६ ॥
1K तत्र च. * KAnd B विन्यस्योभौ राशी. K and B सङ्गणयेत्. • B स्य हि. 5 B नस्या.
• B शतस्य कति भवनानाम. 7 M and B चत्वारिंशद्वयका शताधिका.
3M इच्छा:. * M ते कियन्तस्स्यु:. 10 M एकैकजिनालयाय दत्तानि. 11M प्रयुक्तनवशतगृहाणां किम्, 12 This stanza is found only in M and B,
For Private and Personal Use Only