Book Title: Dharmvidhiprakaranam
Author(s): Shreeprabhsuri
Publisher: Bhadrankar Prakashan
View full book text
________________
३६५
5
अष्टमं सद्धर्मफलद्वारम्
व्याख्या-मध्यस्थानां-समचित्तानाम् , तेऽपि कथञ्चित् स्वकल्पनया धर्ममाचरन्ति अतः, आगमरुचीनां-सिद्धान्ताभिलाषिणाम् , तेऽपि कथञ्चिदसंविग्ना स्युः, अतः संवेगभावितमतीनां-भावनावासितबुद्धीनाम् , उपकारकृते-हितार्थम् एष धर्मविधिरुद्धृत इति पूर्वोक्तेन योगः । न पुनः सकषायचित्तानां-क्रोधादिरुद्धान्त:करणानामिति गाथार्थः ॥५३॥
अधुना धर्मविधेर्माहात्म्यमुपदर्शयन्नाहजह कुसलो वि हु विज्जो, वाहिं अवहरइ विइयउट्ठाणो तह भव्वो वि जिओ इह, धम्मविहिन्नू खवइ कम्मं ॥५४॥
व्याख्या-यथा कुशलोऽपि वैद्यो विदितोत्थानो-ज्ञातरोगकारणः व्याधिमपहरति दुरित(हुरिति) निश्चये तथा भव्योऽपि जीव इहास्मिन् लोके, 10 धर्मविधिज्ञो-विज्ञातधर्मतत्त्वः सन् , कर्म क्षिपति, अज्ञानिनो हि सुबहुकालेनाल्पकर्मक्षयकारित्वात् ॥ यदुक्तं-"जं अन्नाणी कम्मं, खवेइ बहुयाहि वासकोडीहि ।
तं नाणी तिहि गुत्तो, खवेइ ऊसासमित्तेण" ॥१॥ [सं.सि./गा.१००] इति गाथार्थः ॥५४॥
इदानीं ग्रन्थकृद्भव्यसार्थमुद्दिश्य सदुपदेशरहस्यवैदुष्यमाहता भो भव्वा तुब्भे वि, वीरजिणरायसासणाउ इमं । निहिमिव धम्म लहिउं, दोगच्चं दलह अचिरेण ॥५५॥
व्याख्या-तत्-तस्मात् पूर्वोक्तार्थश्रवणात् , भो इत्यामन्त्रणे, भव्या भवन्तोऽपि, वीरजिनराजशासनादिम-धर्मां निधिमिव लब्ध्वा दौर्गत्यं- दुर्गतेर्भावम् , दलयत- 20 क्षयं नयत । अचिरेण-स्तोककालेन, तथा चोक्तिलेशः, निधिरपि राजशासनालभ्यते, लब्धश्च दौर्गत्यं दारिद्रयं दलयतीति गाथार्थः ॥५५॥
एतदेव स्वोक्तं विशेषतस्तात्पर्येणाहरयणं व मणुस्सत्तं, सुदुल्लहं एवमेव मा गमह । अलंबिऊण दूसम-तुच्छबलत्ताइए दोसे ॥५६॥ व्याख्या-मनुष्यत्वं रत्नमिव सुदुर्लभं-दुष्प्रापम् एवमेव नैरर्थक्येन, माशब्दो
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426