Book Title: Dharmvidhiprakaranam
Author(s): Shreeprabhsuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 401
________________ ३६६ श्रीधर्मविधिप्रकरणम् निषेधे गमयत - त्यजत, किं कृत्वा ? इत्याह- अवलम्ब्य - आश्रित्य कान् ? दुःषमातुच्छबलत्वादीन्, [ दोषान् ], तत्र दुःषमा - जघन्यकालः, तुच्छबलंअल्पप्राणत्वम्, आदिशब्दात् हुण्डावसप्पिणीहुण्डसंस्थानदक्षिणभरतवासादीनां सङ्ग्रहः, अमीभिरालम्बनैः पूर्वोद्दिष्टार्थसार्थकरणे न प्रमादः समाचरणीयो भव्यैरिति 5 भावा ( गाथा ) र्थः ॥५६॥ साम्प्रतं ग्रन्थकारो धर्म्मविधिविधायिनां शाश्वतफलावाप्त्या ग्रन्थसमाप्ति कुर्वन्नाह एवं सिरिधम्मविहिं, सिरिसिरिपहसूरिणा समाइटुं । जे आयरंति सम्मं, लहंति ते सासयसुहाई ॥५७॥ 10 15 20 25 व्याख्या - एनं (तं ) श्रीधर्म्मविधिं ' श्री श्रीप्रभसूरि नाम्ना आचार्येण समुपदिष्टं ये भव्या आचरन्ति सम्यक् ते लभन्ते शाश्वतसुखानीति गाथार्थः ॥५७॥ इति विवृतं धर्म्मविधेः, श्री श्रीप्रभसूरिभिः कृतं सूत्रम् । अथ चास्य वृत्तिकारः, स्वगुरुक्रममाह सङ्क्षेपात् ॥१॥ अथ प्रशस्तिः श्रीचन्द्रगच्छकमला-कण्ठालङ्कारतारहारनिभः । श्रीसर्वदेवसूरि-भूरिगुणोऽभूद् भुवि ख्यातः ॥१॥ तत्पट्टनभसि युगप-लब्धोदयतः परोपकृतिकुशलौ । नव्यौ रविचन्द्राविव विदितौ शिष्यावजनिषाताम् ॥२॥ तत्रैकोऽभिनवरविः, श्री श्रीप्रभसूरिरहतगुरुतेजाः । कुवलयविबोधहेतुः सदाऽप्यनस्तमितमहिमा च ॥३॥ विमलः सदा सुवृत्तो, द्योतितपक्षद्वयस्त्यक्तदोषः । श्रीसोमप्रभसूरि-नवीनसोमप्रभश्चान्यः ॥४॥ १. द्योतितपक्षद्वयोऽकलितदोषः इति तु पाठश्छन्दोऽदूषितः । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426