Book Title: Dharmvidhiprakaranam
Author(s): Shreeprabhsuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 403
________________ ३६८ श्रीधर्मविधिप्रकरणम् रस ६ मंगल ८ सूर्य १२मिते, वर्षे श्रीविक्रमादतिक्रान्ते । चक्रे चन्द्रावत्यां, वृत्तिरियं सङ्घसान्निध्यात् ।।१७।। ग्रन्थप्रमाणमत्र, प्रत्यक्षरगणनया विनिश्चिक्ये । २पञ्चसहस्राण्यस्यां, विंशत्यधिका च पञ्चशती ॥१८॥ श्रीधर्मविधेः सूत्रं, विवृण्वताऽवापि यन्मया पुण्यम् । तेन जिनधर्मकरणे, सदोद्यतो भवतु भव्यजनः ॥१९॥ इति कुवलयबोधकरी, जनशस्या निर्मला विधुकलेव । धर्मविधेर्वृत्तिरियं, लभतां शाश्वतिकमित उदयम् ॥२०॥ इति श्रीउदयसिंहाचार्यविरचिता उदयाङ्काष्टद्वारा श्रीधर्मविधिवृत्तिः समाप्ता ॥ सर्वतन्त्रस्वतन्त्रश्रीउदयसिंहसूरिविनिर्मितविवृतविभूषितं चातुर्विद्यविशारदश्रीश्रीप्रभसूरिप्रणीतं ॥ श्रीधर्मविधिप्रकरणं सम्पूर्णम् ॥ 15 15 १. १२८६ वि.स. । २. ५५२० ग्रन्थाग्रम् । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426