Book Title: Dharmabhyudayam
Author(s): Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 7
________________ श्रीमन्मेघप्रभाचार्यविरचितं समुचितानां सिद्धिहेतुत्वं प्रतिपादयता कुशलवैतालिकेनानेन दिष्ट्या ममापि शुभोपश्रुतिलाभ इव श्रवणपथप्रणयीकृतः । तदेहि आवामप्यनन्तरकार्यकरणाय सज्जीभवावः । ( इति निष्क्रान्तौ । ) || प्रस्तावना | 8 ( ततः प्रविशति निजप्रासादसभामण्डपस्थसिंहासनाध्यासीनस्त्रिदशाङ्गनानुकारवारविलासिनी करकमलसंचार्यमाणचारुतरचामरयुगलवीज्यमानो राजा दशार्णभद्रो विभवतश्च परिवारः । ) राजा - ( सुमतिनामानं निजममात्यरत्नं प्रति ) महत्तम ! कदा मुदाश्रुभिः प्राव्यो मिथ्यादर्शनकश्मलः । देवदेवं नमस्कृत्य वीरं मम शुभोदये ! ॥ ७ ॥ अमात्यः — देव ! एवमेतत्, चिन्तारत्नं कल्पद्रुमश्च सौवर्णपुरुषसिद्धिश्च । जिनवन्दनं सुभक्त्या पृथुपुण्यैर्भवति कस्यापि ॥ ८ ॥ राजा- पुण्यप्रबन्धसुलभांहिसरोरुहस्य तस्यागमात्समभिनन्दति मां जनो यः । तस्मै सुवर्णरसनादिकतोषदानं किं किं ददामि नहि कामितवस्तु यद्वा ? ॥ ९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28