Page #1
--------------------------------------------------------------------------
________________
Page #2
--------------------------------------------------------------------------
________________
आत्मानन्द- प्रन्थरत्नमाला - एकषष्टितमं रत्नम् (६१)
श्रीमन्मेघप्रभाचार्य विरचितं
धर्माभ्युदय
( सूक्तरत्नावली च
न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश शिष्य प्रवर्त्तक- श्रीमत्कान्तिविजय मुनिवर्यविनेयमुनिचतुर विजय शिष्येण मुनिपुण्यविजयेन संशोधितम् ।
तच
भणहिल्लपुरपतनवास्तव्य - ओसवालज्ञातीय-श्रेष्ठिहीराचन्द्र - पुत्री - प्रसन्नबाई - द्रव्य साहाय्येन
प्रकाशयित्री
भावनगरस्था-श्रीजैन - आत्मानन्दसभा |
वीरसंवत्-२४४४. मात्मसंवत् २२
विक्रम संवत् १९७४. इसवीसन १९१८.
प्रकाशक- मंदास त्रिभुवनदास गांधी सेक्रेटरी श्री जैन आत्मानन्द सभा सुद्रक - मणिभाई मथुरभाई गुप्त भी आर्य सुधारक प्रेस रावपुरा - वडोदरा
. ता. १०-४-१८.
Page #3
--------------------------------------------------------------------------
________________
प्रकाशकवल्लभदास त्रिभुवनदास गांधी
सेक्रेटरी. श्रीजैन आत्मानन्द सभा
भावनगर.
मुद्रकमॅनेजर-आर्यसुधारकप्रेस.
रावपुरा-वडोदरा.
TEEEEEEEEEEEEEEEET
ता. १०-४-१८.
___
Page #4
--------------------------------------------------------------------------
________________
॥ अहम् ॥ ॥ श्रीमद्विजयानन्द सूरिभ्यो नमः ॥
-- --- पण्डितप्रकाण्डश्रीमन्मेघप्रभाचार्यविरचित्रं
धर्माभ्युदयम् ।
~UCT
:: शक्रेण मुदाभिवन्दितपदद्वन्द्वः क्षमाभृद्वरः
क्रोधाद्युत्कटवैरिन्ददलनः सद्धर्मनीतिप्रियः। पोन्मीलत्समिति श्रियं जयमयीं बिभ्रदलैरद्भुतः सस्ताद्वीरजिनः शुभाय भवतां श्रीमानिनो मानिनाम्॥१॥
(नान्द्यन्ते सूत्रधारः) सूत्रधारः-( सहर्ष ) विस्तीर्णेव जिनेन्द्रसद्मनि महान् यात्रोत्सवो वर्तते ___ यत्तत्राभिनयो मयाद्य सुधिया कार्यः प्रबन्धस्य च । सौभाग्योपरि मञ्जरीपरिचयः सोऽयं प्रवर्तिष्यते यद्वा स्थास्यति रत्नदृष्टिघटना सैषा सुवर्णोपरि ॥२॥
(स्वगतं ) कथमद्यापि श्रीमद्देवगुरुगुणप्रस्तावकजनकल्पपादपत्रागल्भ्यश्रीसंघसभ्याभ्यर्णमभिनेयप्रबन्धपरिज्ञानार्थसुपस्थितः सततमस्मासु सत्यापितसमीचीनवैनयिकलील: सुशीलः शैलूषो विलम्बते ।
Page #5
--------------------------------------------------------------------------
________________
श्रीमन्मेघप्रभाचार्यविरचितं
(प्रविश्य ) नट:-(पत्रकमर्पयन् ) (क) भाव ! सन्मजणाभिप्पे यनाडयारंभपवत्तयं एवं तं पत्तयं ।
सूत्रधारः-(गृहीत्वा सोत्कर्ष वाचयति ।) यः सत्त्वतत्त्वप्रणयैकपात्रं संग्रामधर्मोभयसत्यसन्धः । यस्मिन्नसौ नायकतामुपैति सैष प्रबन्धोऽभिनयेन योज्यः
यत:दानैकवीरा भुवि सन्ति केचिद्रणैकवीरा अपरे पुमांसः । तपःप्रवीरा इतरेज लोके वीरव्रती त्रिष्वपि यः स नेता
(क्षणं विमृश्य सहर्षोल्लापं ) हुं ज्ञातं मारे ! हुं ज्ञातम मार्ष ! निश्चितं श्रीदशार्णभद्रचरित्रशुश्रूषातरङ्गितोऽयं पारिष बलोकः । अहो ! अस्मदीयहृदयानन्दसंवावदकोऽयं श्रीस घसमादेशः । यस्मादस्माभिरपि नगरलक्ष्मीशिरःशेखरसहो दरेऽस्मिन् श्रीपार्श्वनाथ जिनमन्दिरे सुधिस्पष्टपिष्टदुष्टातिपुष्टक मोष्टकाष्टाहिकापूजामहोत्सवपवित्रयात्रामभि सत्यमैषमः संद त्सरे मत्सरेन्धनग्राससविकाशहुताशस्य दुरन्तदुरितवातशत निजातविनिपातपाशस्य श्रीमन्महावीरजिनेश्वरचरणतामरस सेवाहेवाकिचश्चरीकस्य निर्दलितसकलमोहमहामहीपालमबलबलानीकस्याहरहाप्रसृमरयशःप्रकरसौरभभरपरिव्यक्तस्य श्रीदशार्णभद्रस्य राजर्षिमुर्दाभिषिक्तस्य प्रबन्धामिनयश्विराचिकीर्षित आसीत् ।
(क) भाव ! सभ्यजनाभिप्रेयनाटकारम्भप्रवर्तकमेतत्तत्पत्रकम् ।।
___
Page #6
--------------------------------------------------------------------------
________________
धर्माभ्युदयम् ।
नटः-(क) भाव ! तुम्हाण सन्मजणचित्तवित्तीए समं च मंतिऊण एयस्स अणुरूवरूवयस्स प्परूवणारंभो।
(नेपथ्ये) (ख) देव ! तुह धम्मकंदो नरिंददोविंदवड़ियाणंदो। संजमासिरिसन्नाहो जयउ जयउ वीरजिणनाहो ॥५॥ दुहृदुरिए समतो ताण नराण मग्गमक्खंतो। भावरससिद्धिहेऊ वीरजिणो कुणउ कल्लाणं ॥६॥
(“ देव ! तुह धम्मकंदो" इत्यादि पुनरपि । )
सूत्रधारः--( ससंभ्रममिवाकर्ण्य नटं प्रति ) सुशील ! प्रगुणीवभूव श्रीदशार्णभद्रभूमीपतिभूमिकावाही अस्मदन्तवासी मियङ्करोनाम । तत्पुरस्तात्पठतः सुमङ्गलाभिधमङ्गलपाठकस्येदं ध्रुवास्थानीय कल्याणगाथायुगलमिव श्रूयते । विज्ञजनमनोहरोक्तिश्रवणसावधाने राज्ञि पुनः पुनस्तदेव पठति । तथा 'भावरससिद्धिहेऊ' इत्यनेन पदेन भावस्य मल्लक्षणस्य सूत्रधारस्य रसानां शृङ्गारादीनाम्, इह हि सुरूपरूपकमरूपणपक्रम
(क) भाव ! युष्माकं सभ्यजनचित्तवृत्त्या समं च मन्त्रयित्वैतस्यानुरूपरूपकस्य प्ररूपणारम्भः।
(ख) देव ! तव धर्मकन्दो नरेन्द्रदेवेन्द्रवर्धितानन्दः । संयमश्रीसन्नाहो जयतु जयतु वीरजिननाथः ॥ दुष्टदुरितान् शमयन् तान्तेभ्यो नरेभ्यो मार्गमाख्यन् । भावरससिद्धिहेतुरिजिनः करोतु कल्याणम् ॥
Page #7
--------------------------------------------------------------------------
________________
श्रीमन्मेघप्रभाचार्यविरचितं
समुचितानां सिद्धिहेतुत्वं प्रतिपादयता कुशलवैतालिकेनानेन दिष्ट्या ममापि शुभोपश्रुतिलाभ इव श्रवणपथप्रणयीकृतः । तदेहि आवामप्यनन्तरकार्यकरणाय सज्जीभवावः ।
( इति निष्क्रान्तौ । )
|| प्रस्तावना |
8
( ततः प्रविशति निजप्रासादसभामण्डपस्थसिंहासनाध्यासीनस्त्रिदशाङ्गनानुकारवारविलासिनी करकमलसंचार्यमाणचारुतरचामरयुगलवीज्यमानो राजा दशार्णभद्रो विभवतश्च परिवारः । )
राजा - ( सुमतिनामानं निजममात्यरत्नं प्रति ) महत्तम ! कदा मुदाश्रुभिः प्राव्यो मिथ्यादर्शनकश्मलः । देवदेवं नमस्कृत्य वीरं मम शुभोदये ! ॥ ७ ॥ अमात्यः — देव ! एवमेतत्,
चिन्तारत्नं कल्पद्रुमश्च सौवर्णपुरुषसिद्धिश्च । जिनवन्दनं सुभक्त्या पृथुपुण्यैर्भवति कस्यापि ॥ ८ ॥
राजा-
पुण्यप्रबन्धसुलभांहिसरोरुहस्य
तस्यागमात्समभिनन्दति मां जनो यः । तस्मै सुवर्णरसनादिकतोषदानं
किं किं ददामि नहि कामितवस्तु यद्वा ? ॥ ९॥
Page #8
--------------------------------------------------------------------------
________________
धर्माभ्युदयम् ।
अमात्यः – देव !
-
अन्योऽपि कोsपि विफलो न भवति परितोष्य देवकीयमनः । श्रीवीरागमकथनात्तोषयिता किमुत यस्तस्य १ ॥ १० ॥ ( ततः प्रविशति प्रकृत्या सदाचारः पुरुषोत्तमो नाम प्रतीहारः । )
प्रतीहारः -- ( राजानं प्रति ) देव ! देवकीयोद्यानस्योद्यानपालकः प्रियंवदः कुतोऽपि निष्यन्दमान इवामन्दानन्दरसेन देवदर्शनमिच्छुः सिंहद्वारमधितिष्ठति ।
राजा - ( साक्षेपं) अकालक्षेपमेव प्रवेशय ।
प्रतीहारः - यदादिशति देवः । ( इति निष्क्रम्य प्रियंवदेन समं प्रविशति । )
प्रियंवदः - ( क ) जयदु जयदु देवो । ( इति राजानं प्रणम्य विज्ञपयति । ) देव ! पणयजणकल्लाणकंदुट्टविसट्टणुरगंतमिहराणुगारिणो सिरिखद्धमाणसामिणो समागमणमंगलेण वद्धाविज्जदु देवो ।
राजा - ( समाकर्ण्यानन्द रोमाञ्चमभिनीय ) प्रियंवदक ! त्रिभुवनजनसंस्तूयमानपदपङ्केरुहमहिमा निष्पतिमनैर्मल्य कैवल्यलक्ष्मीविलासरसप्रसृतः समवसृतः कस्मिन्नगण्यपुण्यसंभारसुभगम्भावुके भूभागे भगवान् ? ।
( क ) जयतु जयतु देवः । देव ! प्रणतजनकल्याणनीलोत्पलदलनोद्गतमिहरानुकारिणः श्रीवर्धमानस्वामिनः समागमनमङ्गलेन वर्धाप्यतां देवः ।
Page #9
--------------------------------------------------------------------------
________________
श्रीमन्मेघप्रभाचार्यविरचितं
प्रियंवदः - ( क ) देव ! एयस्सेय धरणिरमणीभाळयलतिळयालंकारसहयरस्स दसन्नपुरनयरस्स मणोरमुजाणमज्झम्मि उज्जाणासरीसीसामेलस्स केलिसेलस्स रयणमयचूडस्स दसन्नकूडस्स मणहरसिरम्मि सुरविरइयतियलुक्कचमक्कारकरणसमवसरणसंठिओ अमरनरसहाए सेविजमाणो चिट्ठा । ( नेपथ्ये तुमुलकोमलो ध्वनिः । ) राजा - (सविस्मयमाकर्ण्य पुरुषमेकं प्रति ) भद्रमुख ! ज्ञायतां किमेतत् ? ।
पुरुषः- ( ख ) जं देवो आणवेदि । ( इति निष्क्रम्य पुनः प्रविश्य च ) देव ! जहाविश्नत्तं य्येव उज्जाणवालगेण । एसो खु वीरजिनिंदवंदणत्थमागयाणं मणुस्साणं च जयजयसद्दतिलइओ मंगलज्झणी ।
सग्गोकसाणं
(ततः प्रविशति यथाकथितस्थानसमवसरणव्यवस्थितो भगवान् त्रिदशासुरविद्याधरपरिच्छदश्च । ) राजा - ( सविशेषोत्कण्ठमङ्गलग्नमाभरणं सौवर्णरसनासनाथं प्रसाददानेन प्रियंवदकाय प्रयच्छति । ससंभ्रमं सिंहासनादुत्थाय
( क ) देव ! एतस्यैव धरणीरमणीभालतलतिलकालङ्कारसहचरस्य दशार्णपुरनगरस्य मनोरमोद्यानमध्ये उद्यान श्रीशीर्षापीडस्य केलिशैलस्य रत्नमयचूडस्य दशार्णकूटस्य मनोहरशिरसि सुरविरचितत्रैलोक्यचमत्कारकरणसमवसरणसंस्थितोऽमरनरसभया सेव्यमानस्तिष्ठति ।
( ख ) यद्देव आज्ञापयति । देव ! यथाविज्ञप्तमेवोद्यानपालकेन । एष खलु वरिजिनेन्द्रवन्दनार्थमागतानां स्वर्गौकसां मनुष्याणां च जयजयशब्दतिलकितो मङ्गलध्वनिः ।
Page #10
--------------------------------------------------------------------------
________________
धर्माभ्युदयम्। समाभ्यन्तर एव भगवदभिमुखं पञ्च सप्त पदानि गत्वा समायोजितकरकुड्मलः शिरसा विकृत्वः समाश्लिष्टभूमण्डलः ) जय जय वीरजिनेश्वर ! दिनकरकरनिकर! मोहतिमिरस्य । भक्त्या त्वदंहिकमलं वन्देऽहमिहस्थितस्तावत् ॥ ११ ॥ ( एवंप्रकारनमस्कारसमुद्गारसारं भगवन्तं नमस्कृत्य
पुनः सिंहासनमध्यास्य स्वगतं) प्राज्यं राज्यमिदं मदीयमभितो निःशेषभूमीभुजां मध्ये कोऽस्ति समो मम क्षितितले शक्या च भक्त्या प्रभौ।
(ततश्च प्रकाशममात्यं प्रति ) अमात्य ! नो केनाप्यभिवन्दितोऽद्भुततरस्फीत्या न वन्दिष्यते यद्वा कोऽपि यथा तथाद्य मयका वन्द्यः स तीर्थाधिपः ॥
तत्सर्वथा सांप्रतमेकहेलया सपरिवारः परिकलितस्फारतरशृङ्गारसारः सविशेषविभूषितकरितुरगरथादिपत्रप्रचारः कार्यतां नागरिकसैनिकजनवर्गः समग्रः। अचिरादेव रचय जगदाश्चर्यकारिणी सर्वसामग्रीम् । ____ अमात्यः-यदादिशति देवः । ( इति निष्क्रम्य पुनः प्रविश्य ) देव ! एकमुत्साहिताः, अपरं मयूरेण लपितम् । एकमिष्टं द्वितीयं वैद्योपदिष्टम् । देवाधिदेवं श्रीमन्महावीरमभिवन्दितुं स्वत एव समुद्भूतप्रभूतानन्दस्ताण्डविताघोषणापटहपटुमणादकृतानुप्रवेशेन विशेषतो देवादे शेन द्विगुणितोत्साह समन्तात्मगुणीभूतोऽयमस्तोकः पौरलोकः।
Page #11
--------------------------------------------------------------------------
________________
श्रीमन्मेघप्रभाचार्यविरचितं
प्रतीहारः-सकलमण्डलेश्वरपुरःसरपर शतसामन्ता राजाङ्गणमुपस्थिता महाराजपादावधारणं प्रतीक्षन्ते ।
(ततः प्रविशन्ति यथानिर्दिष्टाः पौरमण्डलेश्वरादयः।)
राजा-(उभौ सुप्रसन्नकिञ्चिन्नयनावलोकनेनानुगृह्य पुरोऽवलोक्य च ) अये ! अस्मभ्यमुपस्थापितो हस्तिपकलोकेन मङ्गलाभ्युदयाभिधानः पट्टकरीन्द्रोऽपि। (इति सिंहासनादुत्थातुमिच्छन् ) देव ! पादावधारणं विधीयताम् । (इति सेवकजनप्रतिपत्तिवचांसि शृण्वन् चतुराभिधचातुर्धरिकनरकुञ्जरेण दत्तहस्तावलम्बः किञ्चित्परिक्रम्योपरिधृतसितातपवारणो महासिन्धुरकन्धराधिरोहणं नाटयति ।)
(प्रस्तावमवाप्य सुमङ्गलः पठति ।) (क) लवणिमसुद्धमुद्धमयरद्धयपयडियपवरगुणगणं - नहयलगमणजाणजालंतरि पिक्खिवि ईसि तुह तणुं । देव दसनभद्द ! सुरतरुणिहं मणु तखणि वि मुच्छए तं नरनारिनियरु तुह दंसणि कि किवँ न जणु गच्छए।
द्वितीयः(ख) सञ्चं लायन्नमयं तुह रूवं देव ! अन्नहा कह णु । सविसेसं तिसियमणो नयणेहि पियंतओ लोओ? ॥१४॥ (क) लवणिमशुद्धमुग्धमकरध्वजप्रकटितप्रवरगुणगणं
नभस्तलगमनयानजालान्तरे प्रेक्ष्येषत्तव तनुम् । देव दशार्णभद्र ! सुरतरुणीनां मनस्तत्क्षण एव मूर्च्छते
तन्नरनारीनिकरस्तव दर्शने कथं कथं न इव गच्छति ॥ (ख) सत्यं लावण्यमयं तव रूपं देव ! अन्यथा कथं नु । सविशेषं तृषितमना नयनैः पिबन् लोकः ? ॥
Page #12
--------------------------------------------------------------------------
________________
धर्माभ्युदयम् ।
(प्रचलिते च राज्ञि पुनः ) प्रथम:(क) दुद्धरतुरयसमयमयगलबलउब्भडसुहडमंडियं
इहं सहसलक्खतहरहवररविरहतलियखंडियं । सुजस दसन्नभद्दनरवर ! तुह जवइ हु सिन्नु चल्लए
स धर धरंतु सेसु कंपिरतणु हिरिवसि धसि न मिल्हए।
पुनर्द्वितीयः शुभङ्करो नाम(ख) पवणवसपरिचलन्ता लोयाणं धयवडा कहति व्व । चलिओ दसन्नभद्दो पहाउ ओसरह ओसरह ॥ १६ ॥
राजा-( सर्वतः स्वसैन्यमवलोक्य सगर्वतया शक्रसमानमिवात्मानं मन्यमानो निजगजेन्द्रकासनस्थममात्यं प्रति ) मत्रिन् ! भवाम्भोधिनिस्तारकं श्रीवीरभट्टारकं नमस्कर्तुमियति समये ननु सौधर्मेन्द्रोऽपि समागतो भविष्यति । ___ अमात्यः--देव ! परमेश्वरनमस्यारसपारवश्येनानवरतमपि रोदसीविवरप्रवर्तमानगमनागमनस्य दुर्नीतिनिनाशनस्य संभाव्यते समागमः पाकशासनस्य ।
(क) दुर्धरतुरगसमदमदकलबलोद्भटसुभटमण्डितं __इह सहस्रलक्षतथारथवररावरथत्वरितखण्डितम् । सुयशो दशार्णभद्रनरवर ! तव जवेन खलु सैन्यं चलति
स धरां धरञ्छेषः कम्प्रतनुः ह्रीवशेन धर्णित्वा न मुञ्चति ॥ (ख) पवनवरापरिचलन्तो लोकानां ध्वजाटा: कथयन्तीव । चलितो दशार्णभद्रः पयोऽरतापसरत ॥
Page #13
--------------------------------------------------------------------------
________________
श्रीमन्मेघप्रभाचार्यविरचितं (ततः प्रविशति सौधर्मस्वर्गादवतरन्नरावणमहावारणस्कन्धमधिरूढो निजगजेन्द्रकासनस्थशचीवृहस्पतिसहितः पुरन्दरो विविधविमानसिंहासनाश्वादियानस्थस्त्रिदशलोकपरिकरश्च ।)
पुरन्दरः-(स्वगत) दिष्टया भाव्यमद्य मम पुण्यपीयूषष्ट्या निखिलमङ्गलोद्याने यदेष निश्शेषभुवनानन्दनो वन्दनीयः श्रीसिद्धार्थपार्थिवनन्दनो देवः । (पुरोऽवलोक्य प्रकाशं वृहस्पतिं प्रति ) वाचस्पते ! तदेतद्दशार्णपुरपत्तनमद्यपातीनदिनेषु श्लाध्यतया सकलजगतीतलनगराणामुपरि वर्तते । प्रवर्धमानमहिमा श्रीवर्धमानस्वामी समवसृत्य यत्परिसरं परिकरोति । पश्यतु हि भवान् , भास्वत्पद्म समवसरणं यत्र सत्पात्ररम्यं ।
श्रीमान् वीरः सुरभितमुणः प्रस्फुरद्वीजकोशः। वैमानालीश्रितसुमनसां यत्कनालं विशालं
भृङ्गायन्ते नरसुरगणा हंसशुभ्रा ध्वजाश्च ॥१७॥ वृहस्पतिः-देव ! एवमेवैतत् । किमुच्यते भगवदागमनमनोहरस्यास्य नगरस्य । ।
शची—(क) अजउत्त ! उत्तमजणाणं य्येव दंसणमिसेण विऊससियहिययाणं अमंदाणंदरोमंकुरप्पयरकंचुइज्ज
(क) आर्यपुत्र ! उत्तमजनानामेव दर्शनमात्रेणापि उच्छृसितहृदयानाममन्दानन्दरोमाकुरप्रकरकञ्चकितगात्राणामतिप्रवणश्रवणशुक्तिभिर्भगवतः सरसवमैदे शनामृतपानं संपद्यते ।
Page #14
--------------------------------------------------------------------------
________________
धर्माभ्युदयम् । तगत्ताणं अइपवणसवणसुत्तीहिं भयवओ सरसधम्मदेसणामयपाणं संपज्जइ।
पुरन्दरः-प्रिये ! एवमेतत् । जिनराजकिंवदन्ती वन्दितुमुत्कण्ठिता नतिरूपास्तिः । सद्धर्मवचाश्रवणं पुण्यैर्गुरुगुरुतरैर्भवति ॥ १८ ॥
शची-( समवसरणाभिमुखमवलोक्य ) (क) अज्जउत्त ! हीमाणहे ! सुराणं पिव विज्जाहराणं पि नराणं गयणगमणाइसत्तीओ विप्फुरंति ।
पुरन्दर:-( सानुकम्पमिव ) प्रिये ! समाराधितप्रसन्नविद्याघिदेवताविशेषाणां दिव्यौषधप्रयोगपरिस्फुरितप्रभावोन्मेषाणां भवन्त्यमीषामपि रचितसूचराश्चर्यव्यक्तयः काश्चन सक्तयः। परं
जन्मस्वभावसंपन्नप्रभावाः क नु देवताः । किङ्कराः सुरलोकानां क च विद्याधरा नराः ॥१९॥ (ततः प्रविशतो भन्यजनभवाम्भोधिनिस्तरणकर्णीरथानुकरणसमवसरणोपान्तमास्थितौ प्रणयवार्तामिव कुर्वन्तौ
नन्दनचन्दनौ नाम विद्याधरकुमारौ ।) नन्दनः-(चन्दनं प्रति) सखे चन्दन ! (क) आर्यपुत्र ! आश्चर्य सुराणामिव विद्याधराणामपि नराणां गगन • गमनादिशकयोऽपि स्फुरन्ति ।
___
Page #15
--------------------------------------------------------------------------
________________
१२ श्रीमन्मेघप्रभाचार्यविरचितं स्फूर्जनिःस्वाननादैः पटुपटहरवैझल्लरीझात्कृतैस्तैः
शङ्खानां घूत्कृतौधैर्यमलपरिलसत्काहलोत्तालरावैः । भेरीभाङ्कारभारैधिरितभुवनाभ्यन्तरो भूमिपाल
श्चिकैः शार्दूलमुख्यैर्घनविकटटगैः कमलम्बैरलम्बैः ॥२०॥ प्रोद्यत्केतुप्रतानैः पवनवशचलैोमसंमार्जनोत्कैः
शैलोत्तडैः करीन्द्रैस्तुरगरथवरैः पत्तिमि रिलः। सन्मायूरातपत्रादिभिरपरिमितैरातपत्रैर्विचित्ररेष प्रोदामलक्ष्मीः क इह जिननतिं कर्तुमभ्येति भक्त्या॥ चन्दनः-सखे ! राजा दशार्णभद्रोऽयं राजन्यैकशिरोमणिः । अभ्येति श्रीमहावीरं मन्ये नन्दन ! वन्दितुम् ॥ २२ ॥ इतश्चएकेनापि करीन्द्रेण व्याप्तनिःशेषविष्टपः। शक्रः स्वर्गात्समायाति विमानाचादिवाहनैः ॥ २३ ॥
नन्दनः-(नभोऽभिमुखं तद्दिशं विस्मयस्मेरनेत्रतयावलोक्य) अये! ऐरावतः कुरु रदाष्टकमत्र धेहि
वापीसरोजदलमष्टकमष्टकं च । प्रत्येकमेषु च दलेषु विधेहि नाट्यं
द्वात्रिंशतासितमिहास्ति किमेतदद्य ? ॥२४॥ चन्दनः-सखे नन्दन ! किं न जानासि एवंप्रकाररावणकरणकारणम् ।
Page #16
--------------------------------------------------------------------------
________________
धर्माभ्युदयम् ।
१३
नन्दनः - नहि किमपि मया ज्ञातमस्ति । किं भवान् जानाति कमप्यत्र वृत्तान्तम् १ |
चन्दनः -- सम्यग् जानामि, सुरेश्वरपुरस्सरमित एव समागच्छता प्रियसुहृदा मणिप्रभदेवेन निवेदितं मम । नन्दनः - ( साक्षेपं ) किं तत् ? |
चन्दनः -- अद्यैष तत्रभवान् पौलोमीपतिः संप्रति श्रीमान् सिंहलाञ्छनो जिनः समवसृतः किं क्षेत्र पवित्रयति १ । तदेकतानज्ञानोपयोगेनात्रावस्थितं भगवन्तं विज्ञाय सानन्दस्तद्वन्दनां विधित्सुः “ राज्यं प्राज्यमिदं " श्लो० १२ इत्येवं दशार्णभद्रराज्ञो गर्वावस्थामयुक्तिमतीमवबुध्य तदपनयनार्थमित्थम्भूतप्रभूतरूपनिर्मापणायैरावणं समादिदेश ।
नन्दनः - इदानीमेष दशार्णभद्रः सुरेन्द्रपराजितः किTea विधास्यति ? |
चन्दनः — यदुत्तमजनानां कर्तुमुचितम् । उत्तिष्ठ, आवामपि तत्र गत्वा कुतूहलमालोकयावः । ( इति तौ राजान्तिक-मुपसृत्य पश्यतः । )
राजा - (निरुपमानं खस्य निर्नाशिताभिमानं पुरन्दरमहर्द्धिमहिमानमालोक्य विगलितच्छायः स्वगतं ) सभाभ्यन्तरे तथाभिमानमातन्वता न सुष्ठु चेष्टितं मया । ( प्रकाशं मन्त्रिणं प्रति सलज्जमिव ) अमात्य ! मन्ये मदभिमानोपमर्दनाय मनोध्यवसायमात्रप्रयासलीलया सुनासीरो दर्शिताहङ्कारमित्थङ्कारं मम लोचनाध्वानमवातरत् । पश्य पश्य,
Page #17
--------------------------------------------------------------------------
________________
श्रीमन्मेघप्रभाचार्यविरचितं ग्रामेशः सपरीवारो यथा कोऽपि न मत्पुरः । अहं सराज्यराष्ट्रोऽपि पुरन्दरपुरस्तथा ॥२५॥ (पुनः ससंवेगं) गुरूणां गुरवः सन्ति महीनां महर्टिकाः। गुणिनां गुणिनो लोके वृथा मानो हि दुधियाम् ॥२६॥ मत्री-देव मास्म विषादः क्रियतां देवपादैः ।
क शक्रलक्ष्मीः १ क च राजसंपत् ? .. ( राजा सविलक्षं विहस्य ' क शक्र-' इत्येतदेव पदं प्रकारास्तरेण साभिमानवृत्त्या चिन्तयन् पुनः पुनर्भणति ।)
मत्री-देव ! मुच्यतां विषादः। राजा____ कथं मम स्यादिह शक्रदर्शनम् ? । मत्री
केनापि राज्ञात्र पराभवो वः राजा
पराभवः खण्डितपुण्यकारिणाम् ॥२७॥ मत्री-देव ! कथङ्कारमित्थं महाराजेन मन्युभरपरवशीक्रियते स्वान्तरात्मा ।
कुलेन विपुलेनात्र सत्कलाकौशलेन वा । रूपसौन्दर्यराज्यैर्वा देवपादैः समोऽस्ति कः ॥२८॥ राजा-अमात्य ! पारमार्थिकोऽयं विचारः।
Page #18
--------------------------------------------------------------------------
________________
धर्माभ्युदयम् । ऋद्धथा गुणसमृद्धया वा कोऽपि कस्यापि हीयते । धन्याः सद्धथानमासाद्य लभन्ते मुक्ततां समाम् ॥२९॥
मत्री-(स्वगतं) अहो ! देवस्य मनस्यल्पव्यतिकरेऽपि महत् पराभववैशसम् । जानाम्यनेन संविनमनसा व्रतमपि ग्रहीतुकामो लक्ष्यते।
राजा-(स्वगतं सोपायमिव ) न यावदायाति पुरन्दरोऽयं वेगेन तावजिनवीरपार्थे । गृह्णामि दीक्षां कृतसाधुशिक्षा पश्चात्तथा दर्शनमस्तु तेन ॥३०॥ ( इति निश्चित्य स्वचेतसि शीघ्रीकृतकरीन्द्रसंचारेण विधिवत्
समवसरणं प्रविश्य श्रीमद्वीरजिनेश्वरं नमस्कुर्वन् ) एषोऽस्मि तव प्रणतो भगवन् ! शरणाय मोहभयभीतः । भवजलधियानपात्रं जिनेन्द्र ! मे देहि चारित्रम् ॥३१॥
(एवं विज्ञप्य व्रतं गृह्णाति।) ( यमनिकान्तराद् यतिवेषधारी पुत्रकस्तत्र स्थापनीयः ।)
मत्री-( सदुःखविस्मयं चतुराभिधचातुर्धरिकप्रधानपुरुषं प्रति ) आः ! कथमेकपदे कस्यापि वाकूतमनिवेद्यैव देवेन दर्शनादेव देवाधिदेवस्य पादाम्बुजे प्रव्रज्यां प्रतिपद्य वयमनाथीकृताः स्मः ।
चतुर:-अमात्य ! भवन्तोऽपि संयमस्वीकारस्वकीयमनोरथं न ज्ञापिता महाराजेन ।
अमात्यः-न ज्ञापिताः । परं स्वत एव ज्ञातमस्माभि
Page #19
--------------------------------------------------------------------------
________________
१६
श्रीमन्मेघप्रभाचार्यविरचितं
राखण्डलप्रचण्डलक्ष्मीविलोकनादारभ्य नरेन्द्रस्य निजराज्यविरक्तिवचनैः ।
चतुरः - पश्यत सकलवसुधासमिद्धसमृद्धिपात्रं कियमात्रं प्रौढप्रभुत्वप्राज्यं साम्राज्यमिव राज्यं जीर्णशीर्णतृणतुया कथङ्कारं तत्याज महाराजः १ । एवंविधं देवस्य कुसुमायुधस्य मूर्तिमदाज्ञास्वरूपं निष्प्रतिरूपमन्तः पुरमपि वैराग्यैकवित्तस्यैतदीयचित्तस्य नान्तरायं कर्तुमलम्बभूव ।
मी - कल्याणवानेष महापुरुषशिरोमणिः क्षणादेव निष्पतिमसमुल्लसितोपशमसमुद्रः । किमस्य भणिष्यते । ।
( ततः प्रविशति शतमखाग्रसैन्यसंचारी रतिप्रीतिप्रणयिनी - द्वितयसहितो देवः कुसुमशरः । )
मदन: – (प्रतिपन्नत्रतं दशार्णभद्रं साधिक्षेपं वीक्ष्य साहङ्कारं) क एष त्रिलोकीतलविदितपराक्रमे मयि प्रतपति मदाज्ञाभङ्गकारी ? |
रतिः -- ( सभयं) (क) अज्जउत्त ! अज्जेव माणसहय रस्स अवयारदंसणेणं माणो तुज्झ संतियं विसयपंचडलं च सिंगारहासविलासप्पमुहपरियणो य एयस्स खमावइणो आएसेणं
(क) आर्यपुत्र ! अद्यैव मानसहचरस्यापकारदर्शनेन मानस्तव सत्कं विषयपञ्चकुलं च शृङ्गारहासविलासप्रमुख परिजन चैतस्य क्षमापतेरादेशेन विवेकमन्त्रिणा समन्ततः सर्वाण्यपि पुरान्निष्काशितानि । एतत्सर्वमपि मम पुरतः साम्प्रतमेव बुद्धिसख्या निवेदितं तत्तवाप्युपरि संजातमत्सर एष प्रतिभासते ।
Page #20
--------------------------------------------------------------------------
________________
धर्माभ्युदयम् ।
१७
विवेयमंतिणा समंतओ सव्वाई वि पुराओ निकासियाई । एयं सव्वं पि मह पुरओ संपदं य्येव बुद्धिसहीए निवेदियं ता तुझं पि उवरि संजायमच्छरो एस पडिहासह ।
मदन: - ( सकोपं )
हृदि धत्ते हरिर्लक्ष्मीमर्धनारीश्वरो हरः ।
देवा मदाज्ञां कुर्वन्ति मनुष्याणां तु का कथा १ ||३२|| प्रीतिः - ( सोत्कम्पं भयमभिनीय ) (क) पिययम ! एसो खु सिरिमहावीरसन्निज्झसिद्धपरमझाणमज्झसुज्झतमाणसो सहावतेयस्सी रायरिसी । ता एयस्स दुत्तवतवसिहिसिहाए मा पयंगतणं पाविहिसि ।
मदनः - हं हं अकं तव वचनमङ्गललीलायितेन । अलं मुद्रितमुखी भव । (इति जस्पन् विनिवार्यमाणोऽपि सकलसुहृज्जनपरिजनेनाध्यारोपितकुसुममयशरासने मोहनाभिधानं शरं संघाय तस्य राजर्षेरुपस्थितमात्रस्तत्क्षणादेव सद्ध्यानपवनोद्दीप्ततपोज्वलनज्वालाभिः करालितो मूच्छितः पृथिव्यां पतति । ) ( शोकावेशविवशीक्रियमाणहृदयः परिजनः सर्वोऽपि पर्याकुलतया जलसेकवातव्यजनादिप्रय नं करोति । ) ( तथास्थितं स्वहृदयदयितं दृष्ट्वा )
(क) प्रियतम ! एष खलु श्रीमहावीरसान्निध्यसिद्धपरमध्यानमध्यशुध्यमानमानसः स्वभावतेजस्वी राजर्षिः । तदेतस्य दुस्तपतपः शिखिशिखायां मा पतङ्गत्वं प्राप्स्यसि ।
Page #21
--------------------------------------------------------------------------
________________
श्रीमन्मेघप्रभाचार्यविरचितं रतिप्रीती-(क) हा पिययम ! समग्गसोहग्गगुणरयणभंडार ! तियलुक्कचित्तरचंकमंतसुकंतविकमचमकार ! कहमित्यं व्येव तं तारिसं सुपउरपोरिसं वहंतो एयावत्थं गओ सि । ( इति ते अपि मूच्छिते भवतः ।)
शान्तिकजलं प्रगुणयध्वं शान्तिकजलम् । तुहिनकन्दाभिधानया दिव्यौषध्या पीयूषवर्षिण्या समालभनं कुरुध्वं समालभनम् । वारुणमत्रेण ज्वलनोत्तारणं विरच्यतां वारुणमत्रेण । विज्ञप्यतां व्यतिकरोऽयं त्रिदशाधिनाथस्य विज्ञप्य. ताम् । ( इति प्रयत्नपरप्रणयिदेवमनुष्यगणगन्धर्वविद्याधरकिन्नरनिकरसंभवं तुमुलरवं प्रविशन्नेव ) ।
पुरन्दर:-(श्रुत्वा) किमेतत् ।। (इति विस्मितात्मा ज्ञानोपयोगेन तपःप्रभावदुर्दशमुनिभयभीतकर्णलमतल्लोकनिवेदनेन च ज्ञातवृत्तान्तश्चिन्तितानन्तरकरकमलप्रणयीभूतप्रचण्डमण्डलकमण्डलुपीयूषधाराच्छटाच्छोटेन संघटितस्वास्थ्यसंपदं मदनमनुष्ठितवान् ।) (मदनः ससंभ्रमं वामदक्षिणदिशोऽवलोकयन् किञ्चि
स्मृतविस्मृतव्यतिकर इव पुरन्दरं प्रणमति।)
पुरन्दर:-( प्रणमन्तमेवैनं ) किमिदमुपशमद्भुमोन्मूलनमत्तमतङ्गज मकरध्वज ! ( इत्यालपन् हृदयेन गृह्णाति ।)
(क) हा प्रियतम ! समग्रसौभाग्यगुणरत्नभाण्डागार ! त्रैलोक्यचितान्तरचक्रम्यमाणसुकान्तविक्रमचमत्कार ! कथमित्थमेव तत्तादृशं सुप्रचुरपौरुषं बहमेतदवस्थां गतोऽसि ।
Page #22
--------------------------------------------------------------------------
________________
धर्माभ्युदयम् ।
एष युवयोर्जीवितेश्वरः पुनरपि जगद्विजययात्रोपक्रमाय सज्जीबभूव । ( इति मन्त्राक्षरैरिव शनैः शनैः श्रवणपथसंचारितैः सखीजनेन संपन्नचैतन्ये रतिप्रीती अपि अभूताम् । पुरतो निजप्रेमसदनं मदनं विलोक्य कटाक्षविक्षेपादिसात्त्विकभावान्नाटयतः । )
मदनः -- ( प्रियप्रेयस्विन्यौ विलोक्य स्वगतं ) प्राणैरर्धानुगतैर्मूर्च्छावन घूर्णितैरिमे दयिते । स्वप्रेमपरीक्षामिव प्रदत्तवत्यौ मयि तथार्ते ||३३|| पुरन्दरः- अयि संपूर्णचन्द्रवदन मदन ! साविकव्रतधारिणां चारित्रिणामन्यदापि मास्म संरब्धो भूः ।
१९
मदन: - ( सलज्जमिव ) यदादिशति स्वामी । ( इति नम्रमुख भवति । )
पुरन्दरः- (स्वगतं ) अहो ! अन्तरायकर्मणा परमेश्वरवन्दनपरमानन्दे समासीदत्यपि कियदन्तरिता वयम् १ | ( इत्यौत्सुक्येन प्रचलन् ) वन्दामहे दुरन्तदुष्कृतनिष्कन्दनं ज्ञातनन्दनं भगवन्तमिदानीम् । ( इति सामानिकसुरैः सह संलपन् गत्वा परमेश्वरं नमस्करोति । )
दृष्टोऽसि चिराज्जिनवर्धमान ! सुकृतोदयेन केनापि । भगवन्नसमशमामृतमहार्णवमनोरथशतैस्तैः ||३४|
यन्न चरति मोहतमो दिवानिशं सकलसुमनसां बोधः । जगदभिनवमित्ररुचिर्धर्माभ्युदयः स ते जयति ॥ ३५॥
Page #23
--------------------------------------------------------------------------
________________
श्रीमन्मेघप्रभाचार्यविरचितं (एवं श्रीमन्महावीरदेवाधिदेवमभिवन्ध )
स्वामिन् ! स एष एकहेलावहेलितसकलधरित्रीतलराज्यः सर्वथास्वीकृतात्यन्तस्वहितकार्यः सद्यःसंजातसुजातचारित्रश्रीस्वयंवरमहोत्सवो दशार्णभद्रराजर्षिः। एष च राजन्यावस्थायामस्य मत्री यथार्थनामा सुमतिः। अयं पुनरेतदीयनन्दनः सुनन्दनो नाम राज्याहः कुमारः । अमी पुनः सुपर्णपन्नगाधुपलक्षणलक्षिताकाराः असुरकुमाराः । इमे च विचित्रमत्रीषधकरण्डकमण्डितकरा विद्याधराः। एते च भक्तिभरनिरुद्धहृदयान्तरा व्यन्तराः । अमी च विरचितश्रीवीरजिनेन्द्रपदपद्मसेवाश्चन्द्रसूर्यादिज्योतिष्कदेवाः । ( इति हरिणेगवेषिदेवेन विज्ञापिते-)
सर्वे-( यथाक्रमं पुरन्दरमुपस्थाय) साधर्मिकशिरोमणे! देवराज ! वन्दामहे । (इति विहितप्रणामाञ्जलयो वन्दनं कुर्वन्ति।)
इन्द्रोऽपि (कर्तव्यवशसमायोजितकरकुड्मलः प्रकटितयथोचितालापमीषन्नतशिरसा तान् प्रतिवन्ध तदेकतानध्यानरससिद्धिस्थिरीकृतकायमिव तथारूपं महामुनिमवलोक्य )
अहो ! मूर्तिरहो ! मूर्तिरहो ! स्फूर्तिः शमश्रियः । वीतरागप्रभोर्मन्ये शिष्योऽभूदेष तादृशः॥ ३६॥ (इति व्यावर्णयन् नमस्यति ।) सुतमां त्वां नमस्यामि कामिनं संयमश्रियः । दशार्णभद्रराजर्षे ! हर्षेणोत्कर्षवर्षिणा ॥ ३७॥
Page #24
--------------------------------------------------------------------------
________________
धर्माभ्युदयम् ।
सत्यप्रतिज्ञस्त्वं जातो निर्जितोऽहं पुरन्दरः । ग्रहीतुमपि चारित्रं यन्नाहं त्वमिव क्षमः ||३८|| ( इति जिनवन्दनप्रतिस्पर्धानिबन्धनं स्वापराधं क्षामयति । लेपमयमूर्तित्वेन प्रतिवचनं धर्मलाभमात्रमप्यलभमानः संमुखमवलोक्य मन्त्रिणं प्रति ) कथमद्यापि प्रतिप्रभावनावलोकनकन्दलितं कालुष्यमिव कलयत्येष महर्षिः । किं वाऽस्मदाश्रितकुसुमायुधापराधप्रतिबद्धविरोधमिव कमपि हृदये निधत्ते ।
मन्त्री प्रधानपरिजनश्च – स्वामिन् ! एष महात्मा गृहीतव्रत एव समशत्रुमित्रः परिणामप्रणयिप्रशमपवित्रः सकलजीवलोकवात्सल्यमधुरचरित्रः । भवन्तोऽपि प्रततमतिबन्धबन्धुराः साधर्मिकबान्धवाः सततमुपासकलोकस्य । मदनोऽपि नामास्य यशस्वितपस्वितपस्तेजसैव दुस्थावस्थामापादितो न पुनः प्रकोपतेजसा । केवलं दीक्षाक्षणादारभ्य केनापि साकमनाभाषमाणः समुज्ज्वलगुणकाष्ठतामास्थितः प्रतिपनमौनध्यान इवोपलक्ष्यते ।
पुरन्दरः - ( साश्चर्यमिव सामानिकसुरान् प्रति ) पश्यत तत्कालमेव विलीनसकलमनः परीणाममवस्थान्तरमस्य महामुनेः कियद्विधां कलाकोटिमापन्नम् ? । ( अन्यतोऽवलोक्य ) कथ१ मद्यापि नात्र प्रस्तावे किमप्यात्मानं ज्ञापयति यथाकामरूपः क्रीडापात्रमस्माकं कुतूहल: ? ।
(ततः प्रविशति चलच्चूलिकां श्मश्रुभागं च परामृशन् कपर्दघर्घराद्याभरणः कौतुकवेषधारी यथानिर्दिष्टः पुरुषः । )
२१
Page #25
--------------------------------------------------------------------------
________________
२२ श्रीमन्मेघप्रभाचार्यविरचितं
कुतूहल:-(क) हीही भो! अचलियं अचलियं, लाए दसन्ने य मुणी पभूदे वीले जिणे दंसिदभत्ति इंदे । पुन्नेहि माले मलिउं च जादे हगे य एगे पुलिसे न किं पि॥३९॥ ता इमे सव्वे वयणे तुम्हें पुलओ पलूविजमाणे अत्थि । हगे वि चालितमिमं कलेमि पलं कलत्ते मम लूववंते । न केणचि चेअइमं जलक्खे लोसालणे तस्स गिलाइ ठाइ॥४०॥ इति।
( सर्वे जना हसन्ति ।) पुरन्दर:-(ईषद्विहस्य ) अलमलमियत्या वचनहेलया कुतूहल इति। ( स्वाम्यादेशविहस्ता वेत्रहस्ता हास्यमुखरं जननिकरं खेच्छाव
चनवाचालं कुतूहलं च प्रतिषेधयन्ति ।) कुतूहल:--(सेय॑मिव ) (ख) लायलायं सलिस्सामो पलं वा सुलसामिणं । अम्हं गिला सुलेलस्स नं एयस्स सुहागला ॥४१॥ (क) ही ही भोः ! आश्चर्यमाश्चर्यम्, राजा दशार्णश्च मुनिः प्रभूतः वीरे जिने दर्शितभक्तिरिन्द्रः । पुण्यारो मृत्वा च जातः अहं चैकः पुरुषो न किमपि ॥ तावदिमानि सर्वाणि वचनानि यूयं पुरतः प्ररूप्यमाणाः स्थ । अहमपि चारित्रमिदं करोमि परं कलत्रं मम रूपवत् ।
.....................रोषारुणः तस्य गिरा तिष्ठति ॥ (ख) राजराजं सरिष्यामः परं वा सुरस्वामिनम् । भस्माकं गीः सुरेशस्य खल्वेतस्य सुखाकरा ।।
Page #26
--------------------------------------------------------------------------
________________
धर्माभ्युदयम् । (इति अन्यत्र व्रजन्निव तत्तुल्यलोकेन संबोधनं कृत्वेव स्थाप्यते । कृतमौने च सर्वजने)
पुरन्दर:-( मन्त्रिणं प्रति) अमात्य ! सांप्रतमसाम्प्रतं भवतः कालक्षेपकरणेन । शीघ्रमेव धवलगृहं गत्वा मौहूर्तिकोत्तमप्रदत्तप्रधानमुहूर्ते राजन्यनन्दनः सुनन्दनः पृथिव्यां राजन्वतीत्वहर्षपीयूषवर्षायाभिषिच्यताम् । नरेश्वराकस्मिकतनहणसमुत्थविरहव्यथादुःखितपद्मावतीदेवीपुरःसरान्तःपुरपरिकरो राजवल्लभलोकश्च सर्वः संबोधनीयोऽस्ति ।
अमात्यः यदादिशति त्रिदशस्वामी । पुनरागमनवन्दनाय वन्दामहे श्रीवीरजिनेश्वरमत्रभवन्तं राजर्षि च ।
पुरन्दर:-अयमस्माभिः प्रदीयमानः सत्यार्थप्रथमान: शत्रुञ्जयाभिधान: पुण्यवत्परिभोग्यः प्रतिहतापायः कोऽपि वस्त्राभरणसमुदायः परिगृह्यताम् ।
अमात्यः-स्वामिन् ! अनेन कृतसमग्रजगन्मङ्गलसंग्रहेण समुल्लासिश्रीवलसूदनानुग्रहेण किमपूर्णमस्माकम् ।
पुरन्दर:-अमात्य ! गरीयान् कल्याणप्रस्तावोऽयम् । सर्वथा न विधेय एव निषेधः । ( इति खहस्तेन प्रतिपन्थिनिमथनपथ्यं नेपथ्यं समर्पयति ।)
महाननुग्रहः । ( इति गृहीत्वा अमात्यः शिरसाऽभिवन्दते।)
पुरन्दर:-अमात्य ! समारब्धबाहुबलिविजयनाव्यावलोकनकुतूहलिनः स्वर्गलोकगमनाय वयमपि समुत्सुका वर्तामहे । कथय यदस्माभिरमिन्नवसरे विधेयमास्ति।
___
Page #27
--------------------------------------------------------------------------
________________
श्रीमन्मेघप्रभाचार्यविरचितं
अमात्यः-स्वामिन् ! श्रीवर्धमानस्वामिपदपथप्रसादेन ततमेवंविधविधीयमानस्वाधीशमधुरमधुराडादेन च सुनन्दनदेवस्य सकलसमीहितलक्ष्मीः करकमलमलङ्करोति ।
पुरन्दरः-तथापीदमस्तुराजानो जनपालनोद्यततया स्फूर्जद्भजन्तां यशो
लोकोऽप्येष विशेषधर्मनिरतः प्रामोतु पुण्यश्रियम् । सन्तः सन्तु अगत्यमोघमनसो वन्द्याः पुनस्तत्परे
श्रीमेघप्रभतां दधज्जिनपतिः श्रेयस्तरं सिञ्चतु ॥४२॥ ॥इति श्रीमेघप्रभाचार्यविरचितः समासोऽयं धर्मा
भ्युदयो नाम च्छायानाव्यप्रवन्धः ॥
Page #28
--------------------------------------------------------------------------
________________