SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ धर्माभ्युदयम् । ऋद्धथा गुणसमृद्धया वा कोऽपि कस्यापि हीयते । धन्याः सद्धथानमासाद्य लभन्ते मुक्ततां समाम् ॥२९॥ मत्री-(स्वगतं) अहो ! देवस्य मनस्यल्पव्यतिकरेऽपि महत् पराभववैशसम् । जानाम्यनेन संविनमनसा व्रतमपि ग्रहीतुकामो लक्ष्यते। राजा-(स्वगतं सोपायमिव ) न यावदायाति पुरन्दरोऽयं वेगेन तावजिनवीरपार्थे । गृह्णामि दीक्षां कृतसाधुशिक्षा पश्चात्तथा दर्शनमस्तु तेन ॥३०॥ ( इति निश्चित्य स्वचेतसि शीघ्रीकृतकरीन्द्रसंचारेण विधिवत् समवसरणं प्रविश्य श्रीमद्वीरजिनेश्वरं नमस्कुर्वन् ) एषोऽस्मि तव प्रणतो भगवन् ! शरणाय मोहभयभीतः । भवजलधियानपात्रं जिनेन्द्र ! मे देहि चारित्रम् ॥३१॥ (एवं विज्ञप्य व्रतं गृह्णाति।) ( यमनिकान्तराद् यतिवेषधारी पुत्रकस्तत्र स्थापनीयः ।) मत्री-( सदुःखविस्मयं चतुराभिधचातुर्धरिकप्रधानपुरुषं प्रति ) आः ! कथमेकपदे कस्यापि वाकूतमनिवेद्यैव देवेन दर्शनादेव देवाधिदेवस्य पादाम्बुजे प्रव्रज्यां प्रतिपद्य वयमनाथीकृताः स्मः । चतुर:-अमात्य ! भवन्तोऽपि संयमस्वीकारस्वकीयमनोरथं न ज्ञापिता महाराजेन । अमात्यः-न ज्ञापिताः । परं स्वत एव ज्ञातमस्माभि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003288
Book TitleDharmabhyudayam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1918
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy