SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रीमन्मेघप्रभाचार्यविरचितं (एवं श्रीमन्महावीरदेवाधिदेवमभिवन्ध ) स्वामिन् ! स एष एकहेलावहेलितसकलधरित्रीतलराज्यः सर्वथास्वीकृतात्यन्तस्वहितकार्यः सद्यःसंजातसुजातचारित्रश्रीस्वयंवरमहोत्सवो दशार्णभद्रराजर्षिः। एष च राजन्यावस्थायामस्य मत्री यथार्थनामा सुमतिः। अयं पुनरेतदीयनन्दनः सुनन्दनो नाम राज्याहः कुमारः । अमी पुनः सुपर्णपन्नगाधुपलक्षणलक्षिताकाराः असुरकुमाराः । इमे च विचित्रमत्रीषधकरण्डकमण्डितकरा विद्याधराः। एते च भक्तिभरनिरुद्धहृदयान्तरा व्यन्तराः । अमी च विरचितश्रीवीरजिनेन्द्रपदपद्मसेवाश्चन्द्रसूर्यादिज्योतिष्कदेवाः । ( इति हरिणेगवेषिदेवेन विज्ञापिते-) सर्वे-( यथाक्रमं पुरन्दरमुपस्थाय) साधर्मिकशिरोमणे! देवराज ! वन्दामहे । (इति विहितप्रणामाञ्जलयो वन्दनं कुर्वन्ति।) इन्द्रोऽपि (कर्तव्यवशसमायोजितकरकुड्मलः प्रकटितयथोचितालापमीषन्नतशिरसा तान् प्रतिवन्ध तदेकतानध्यानरससिद्धिस्थिरीकृतकायमिव तथारूपं महामुनिमवलोक्य ) अहो ! मूर्तिरहो ! मूर्तिरहो ! स्फूर्तिः शमश्रियः । वीतरागप्रभोर्मन्ये शिष्योऽभूदेष तादृशः॥ ३६॥ (इति व्यावर्णयन् नमस्यति ।) सुतमां त्वां नमस्यामि कामिनं संयमश्रियः । दशार्णभद्रराजर्षे ! हर्षेणोत्कर्षवर्षिणा ॥ ३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003288
Book TitleDharmabhyudayam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1918
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy