SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ धर्माभ्युदयम्। समाभ्यन्तर एव भगवदभिमुखं पञ्च सप्त पदानि गत्वा समायोजितकरकुड्मलः शिरसा विकृत्वः समाश्लिष्टभूमण्डलः ) जय जय वीरजिनेश्वर ! दिनकरकरनिकर! मोहतिमिरस्य । भक्त्या त्वदंहिकमलं वन्देऽहमिहस्थितस्तावत् ॥ ११ ॥ ( एवंप्रकारनमस्कारसमुद्गारसारं भगवन्तं नमस्कृत्य पुनः सिंहासनमध्यास्य स्वगतं) प्राज्यं राज्यमिदं मदीयमभितो निःशेषभूमीभुजां मध्ये कोऽस्ति समो मम क्षितितले शक्या च भक्त्या प्रभौ। (ततश्च प्रकाशममात्यं प्रति ) अमात्य ! नो केनाप्यभिवन्दितोऽद्भुततरस्फीत्या न वन्दिष्यते यद्वा कोऽपि यथा तथाद्य मयका वन्द्यः स तीर्थाधिपः ॥ तत्सर्वथा सांप्रतमेकहेलया सपरिवारः परिकलितस्फारतरशृङ्गारसारः सविशेषविभूषितकरितुरगरथादिपत्रप्रचारः कार्यतां नागरिकसैनिकजनवर्गः समग्रः। अचिरादेव रचय जगदाश्चर्यकारिणी सर्वसामग्रीम् । ____ अमात्यः-यदादिशति देवः । ( इति निष्क्रम्य पुनः प्रविश्य ) देव ! एकमुत्साहिताः, अपरं मयूरेण लपितम् । एकमिष्टं द्वितीयं वैद्योपदिष्टम् । देवाधिदेवं श्रीमन्महावीरमभिवन्दितुं स्वत एव समुद्भूतप्रभूतानन्दस्ताण्डविताघोषणापटहपटुमणादकृतानुप्रवेशेन विशेषतो देवादे शेन द्विगुणितोत्साह समन्तात्मगुणीभूतोऽयमस्तोकः पौरलोकः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003288
Book TitleDharmabhyudayam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1918
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy