Book Title: Dharmabhyudayam
Author(s): Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 16
________________ धर्माभ्युदयम् । १३ नन्दनः - नहि किमपि मया ज्ञातमस्ति । किं भवान् जानाति कमप्यत्र वृत्तान्तम् १ | चन्दनः -- सम्यग् जानामि, सुरेश्वरपुरस्सरमित एव समागच्छता प्रियसुहृदा मणिप्रभदेवेन निवेदितं मम । नन्दनः - ( साक्षेपं ) किं तत् ? | चन्दनः -- अद्यैष तत्रभवान् पौलोमीपतिः संप्रति श्रीमान् सिंहलाञ्छनो जिनः समवसृतः किं क्षेत्र पवित्रयति १ । तदेकतानज्ञानोपयोगेनात्रावस्थितं भगवन्तं विज्ञाय सानन्दस्तद्वन्दनां विधित्सुः “ राज्यं प्राज्यमिदं " श्लो० १२ इत्येवं दशार्णभद्रराज्ञो गर्वावस्थामयुक्तिमतीमवबुध्य तदपनयनार्थमित्थम्भूतप्रभूतरूपनिर्मापणायैरावणं समादिदेश । नन्दनः - इदानीमेष दशार्णभद्रः सुरेन्द्रपराजितः किTea विधास्यति ? | चन्दनः — यदुत्तमजनानां कर्तुमुचितम् । उत्तिष्ठ, आवामपि तत्र गत्वा कुतूहलमालोकयावः । ( इति तौ राजान्तिक-मुपसृत्य पश्यतः । ) राजा - (निरुपमानं खस्य निर्नाशिताभिमानं पुरन्दरमहर्द्धिमहिमानमालोक्य विगलितच्छायः स्वगतं ) सभाभ्यन्तरे तथाभिमानमातन्वता न सुष्ठु चेष्टितं मया । ( प्रकाशं मन्त्रिणं प्रति सलज्जमिव ) अमात्य ! मन्ये मदभिमानोपमर्दनाय मनोध्यवसायमात्रप्रयासलीलया सुनासीरो दर्शिताहङ्कारमित्थङ्कारं मम लोचनाध्वानमवातरत् । पश्य पश्य, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28