Book Title: Dharmabhyudayam
Author(s): Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 17
________________ श्रीमन्मेघप्रभाचार्यविरचितं ग्रामेशः सपरीवारो यथा कोऽपि न मत्पुरः । अहं सराज्यराष्ट्रोऽपि पुरन्दरपुरस्तथा ॥२५॥ (पुनः ससंवेगं) गुरूणां गुरवः सन्ति महीनां महर्टिकाः। गुणिनां गुणिनो लोके वृथा मानो हि दुधियाम् ॥२६॥ मत्री-देव मास्म विषादः क्रियतां देवपादैः । क शक्रलक्ष्मीः १ क च राजसंपत् ? .. ( राजा सविलक्षं विहस्य ' क शक्र-' इत्येतदेव पदं प्रकारास्तरेण साभिमानवृत्त्या चिन्तयन् पुनः पुनर्भणति ।) मत्री-देव ! मुच्यतां विषादः। राजा____ कथं मम स्यादिह शक्रदर्शनम् ? । मत्री केनापि राज्ञात्र पराभवो वः राजा पराभवः खण्डितपुण्यकारिणाम् ॥२७॥ मत्री-देव ! कथङ्कारमित्थं महाराजेन मन्युभरपरवशीक्रियते स्वान्तरात्मा । कुलेन विपुलेनात्र सत्कलाकौशलेन वा । रूपसौन्दर्यराज्यैर्वा देवपादैः समोऽस्ति कः ॥२८॥ राजा-अमात्य ! पारमार्थिकोऽयं विचारः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28