Book Title: Dharmabhyudayam
Author(s): Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 5
________________ श्रीमन्मेघप्रभाचार्यविरचितं (प्रविश्य ) नट:-(पत्रकमर्पयन् ) (क) भाव ! सन्मजणाभिप्पे यनाडयारंभपवत्तयं एवं तं पत्तयं । सूत्रधारः-(गृहीत्वा सोत्कर्ष वाचयति ।) यः सत्त्वतत्त्वप्रणयैकपात्रं संग्रामधर्मोभयसत्यसन्धः । यस्मिन्नसौ नायकतामुपैति सैष प्रबन्धोऽभिनयेन योज्यः यत:दानैकवीरा भुवि सन्ति केचिद्रणैकवीरा अपरे पुमांसः । तपःप्रवीरा इतरेज लोके वीरव्रती त्रिष्वपि यः स नेता (क्षणं विमृश्य सहर्षोल्लापं ) हुं ज्ञातं मारे ! हुं ज्ञातम मार्ष ! निश्चितं श्रीदशार्णभद्रचरित्रशुश्रूषातरङ्गितोऽयं पारिष बलोकः । अहो ! अस्मदीयहृदयानन्दसंवावदकोऽयं श्रीस घसमादेशः । यस्मादस्माभिरपि नगरलक्ष्मीशिरःशेखरसहो दरेऽस्मिन् श्रीपार्श्वनाथ जिनमन्दिरे सुधिस्पष्टपिष्टदुष्टातिपुष्टक मोष्टकाष्टाहिकापूजामहोत्सवपवित्रयात्रामभि सत्यमैषमः संद त्सरे मत्सरेन्धनग्राससविकाशहुताशस्य दुरन्तदुरितवातशत निजातविनिपातपाशस्य श्रीमन्महावीरजिनेश्वरचरणतामरस सेवाहेवाकिचश्चरीकस्य निर्दलितसकलमोहमहामहीपालमबलबलानीकस्याहरहाप्रसृमरयशःप्रकरसौरभभरपरिव्यक्तस्य श्रीदशार्णभद्रस्य राजर्षिमुर्दाभिषिक्तस्य प्रबन्धामिनयश्विराचिकीर्षित आसीत् । (क) भाव ! सभ्यजनाभिप्रेयनाटकारम्भप्रवर्तकमेतत्तत्पत्रकम् ।। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28