Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ Jain Education Intern - इति विवेकमञ्जरीवृत्तेः प्रशस्तिपद्यद्वयमुपन्यस्तवान् । एतच्च न युक्तम्, बालचन्द्रसूरेः प्रकृतहरिभद्रसूरिशिष्यत्वे मानाभावात् । प्रमाणत्वेनोद्धृतपद्यद्वितयेऽपि न हरिभद्रसूरेनगेन्द्रगच्छीयत्वं कलिकालगौतमबिरुदं वोपलभ्यते इति न तदपि साधकम् । किञ्च, बालचन्द्रसूरिर्हि हरिभद्रसूरेः पट्टधरः शिष्य इति तदीयप्रन्थेषु प्रकटतरम् । यथा वसन्तविलासमहाकाव्ये समाहितः श्रीहरिभद्रसूरिगुरोर्गिरोपात्तविवेकसंपत् । कथञ्चिदेवानुमतः पितृभ्यामभ्यासदज्जैनमतव्रतं सः ॥ ५३ ॥ पूर्णः समग्राभिरसौ कलाभिः क्रमेण भावीति गुरुर्विभाव्य । तं प्रीतचेताः किल बालचन्द्र इत्याख्यया दीक्षितमभ्यधत्त ॥ अधीतविद्यं तमथ क्रमेण समारुरुक्षुर्दिवमायुषोऽन्ते । न्यवीविशद्विश्वनमस्यपादः स्वस्मिन् पदे श्रीहरिभद्रसूरिः ॥” प्रकृत हरिभद्रसूरिपट्टधरस्तु विजयसेनसूरिरिति धर्माभ्युदयप्रशस्तिश्लोकैर्निर्धारितमेव । अयं च हरिभद्रसूरिर्नागेन्द्रगच्छीय श्रीमदमरचन्द्र| सूरेः पट्टशिष्य इत्यपि निर्दिष्टपूर्वम् । बालचन्द्रसूरिगुरुहरिभद्रसूरिस्तु चन्द्रगच्छीयश्रीमद्भयदेवसूरेः पट्टधरः शिष्य इत्यादिकमुपदेशकन्दली - वृत्त्यादिषु बालचन्द्रादिभिरेव प्रतिपादितमनेकधा । (६) चन्द्रगच्छीय श्रीभद्रेश्वरसूरिशिष्यो यः १२८९ तमे विक्रमसंवत्सरे निर्मिते उपमितिभवप्रपञ्चासारोद्वारे तत्कर्त्री श्रीमता देवेन्द्रसूरिणा स्वपूर्वगुरुत्वेन वर्णितः । तथाच तत्प्रशस्तिलेखः For Private & Personal Use Only elibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 584