Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 10
________________ ग्रन्धकार परिचयः ॥४॥ शिष्यस्तस्य विभोर्नमस्यचरणाम्भोजस्य जज्ञे महान् साहित्योपनिषन्नभोङ्गणरविः श्रीबालचन्द्रः कविः। यं स्वमान्तरुपेत्य तदृढतरानुध्यानतुष्टा जगों मत्पुत्रस्त्वमसीति शीतलगिरा देवी गिरामीश्वरी ॥१३॥" तथा, बालचन्द्रसूरिकृतकरुणावत्रायुधनाटकेऽप्येतदर्थक एवं समुल्लापः श्रूयते, यथा "नट:-मारिष! श्रीदेवेन्द्रगुरुस्वहस्तस्वपट्टनिवेशितस्य भुवनभद्रकरस्य श्रीभद्रेश्वरसूरिसुगुरोः पट्टनभस्तलाऽलङ्करणकिरणमालिना प्रतिवादिदितितनयमनशौरिणा श्रीमभयदेवसूरिणा निजकरतामरसप्रतिष्ठितानप्रतिमप्रतिभाभरसौरभदुभंगीकृतत्रिदशसूरीन् श्रीहरिभद्रसूरीनभिजानासि ?" | (८) श्रीजिनचन्द्रसूरिशिष्यस्य श्रीचन्द्रसूरेः शिष्यः, येन कुमारपालराज्ये संवत् १२१६ वर्षेऽपभ्रंशभाषायां नेमिनाथचरित्रं विरचितम्। इदं च तदन्तस्थेन " इति श्रीचन्द्रसूरिक्रमकमलभसलश्रीहरिभद्रसूरिविरचितं नवभवनिबद्धं श्रीनेमिनाथचरित्रं समाप्तम्" इति शब्दसंदर्भेण तदीयप्रशस्तिलेखेन च स्पष्टमवबुध्यते । | (९) बृहद्गच्छीयश्रीमानभद्रसूरिशिष्योऽप्येकतमो हरिभद्रसूरिः, यो जयवल्लभविरचितस्य 'वज्जालग्ग' ग्रन्थस्य छायालेखकेन रत्नदेवेन तत्प्रशस्तौ स्मृतः । तथाच तत्पाठःगच्छे पृथौ श्रीमति मानभद्रसूरिर्बभूव प्रथितः पृथिव्याम् । तदीयपट्टे हरिभद्रसूरिजज्ञेऽखिलक्ष्मातललोकपूज्यः ॥१॥ तच्छिष्यलेशोऽस्ति गुणानुरक्तः श्रीधर्मचन्द्रः सकलः कलाभिःनिपीय यद्वागमृतं सुधाया मनोहरं नो विबुधाः स्मरन्ति ****CACHARISHISHIA Jain Education Interna For Private & Personal Use Only Whilelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 584