Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ विद्यालये प्राकृतेऽस्मिन् सुभाषितमणावहो । लिलेख लेखकच्छायां रत्नदेवश्च तद्गिरा । शिखि-ग्रहा-ऽग्नि-चन्द्रैर्हि प्रमिते वत्सरे वरे । ग्रन्थोऽयं संख्यया ख्यातः सहस्रत्रितयं ननु ॥३॥ इत्येवं विविधप्रमाणोपलम्भेन विनिीतेष्वमीषु हरिभद्रसूरिषु सर्वप्रथमो याकिनीमहत्तराधर्मपुत्रतया ख्यात इत्याद्युक्तमेव पूर्वम् । अथेदमपि विचारणमत्र जागृतिमासादयन्नानौचितीमञ्चेद् यदुत, धर्मसंग्रहणीनामधेयस्य दार्शनिकग्रन्थस्याऽस्य विधातारः सुविहितशिरोमणयो विद्वन्मणयः सर्वप्राचीना इम आचार्यहरिभद्रपादाः कतमस्य भूभागस्यावतंसीबभूवुः ? कस्य वा गुरोः पट्टप्रभावकतामातेनुः ?, कियतो वा सर्वसंख्यया ग्रन्थान् विरचयामासुः कदा चैते त्रिदशाधिपतेरातिथ्यमाभेजुरिति । अत्र च ____“केन ? इत्याह-हरिभद्राचार्येण, यः किल श्रीचित्रकूटाचलचूलानिवासी प्रथमपर्याय एव स्फुटपठिताष्टव्याकरणः सर्वदर्शनानुयायित कर्कशमतिमतामग्रगण्यः प्रतिज्ञातपरपठितग्रन्थानवबोधतच्छिष्यभाव आवश्यकनियुक्तिपरावर्तनाप्रवृत्तयाकिनीमहत्तराऽऽश्रयसमीपलब्ध"चक्किदुगं हरिपणगं" इत्यादिगाथासूत्रो (विहित) निजनिपुणोहापोहयोगोऽपि कथमपि स्वयमनुपलब्धतदर्थस्तदवगमाय महत्तरोपदेशात् श्रीजिनभद्रा (टा) चार्यपादमूलमवसर्पन्नन्तरा जिनबिम्बाऽवलोकनसमुत्पन्नानुत्पन्नपूर्वबहलप्रमोदवशात् समुच्चरित “वपुरेव तवाऽऽचष्टे इत्यादि १ अत्र चित्रकूटाचलचूलानिवासित्वमभिहितम् , प्रभावकचरित्र-गणधरसार्धशतकवृत्यादिषु तु सर्वत्रैषां चित्रकूटाचलासन्नं चित्रकूटनगरमेव निवासभूमिरिति दृश्यते । सुमतिगणिकृतायां गणधरसार्धशतकवृत्तौ तु–“एवं सो पंडित्तगब्वमुन्वहमाणो हरिभद्दो नाम माहणो" इत्यनेन ब्राह्मणत्वमात्रं प्रतिपादितं न पुरोहितत्वम् । एवं चित्रकूटाधिपते राज्ञो नामापि तत्र न निर्दिष्टम् । Jain Education Inter For Private & Personel Use Only H ainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 584