________________
विद्यालये प्राकृतेऽस्मिन् सुभाषितमणावहो । लिलेख लेखकच्छायां रत्नदेवश्च तद्गिरा ।
शिखि-ग्रहा-ऽग्नि-चन्द्रैर्हि प्रमिते वत्सरे वरे । ग्रन्थोऽयं संख्यया ख्यातः सहस्रत्रितयं ननु ॥३॥ इत्येवं विविधप्रमाणोपलम्भेन विनिीतेष्वमीषु हरिभद्रसूरिषु सर्वप्रथमो याकिनीमहत्तराधर्मपुत्रतया ख्यात इत्याद्युक्तमेव पूर्वम् ।
अथेदमपि विचारणमत्र जागृतिमासादयन्नानौचितीमञ्चेद् यदुत, धर्मसंग्रहणीनामधेयस्य दार्शनिकग्रन्थस्याऽस्य विधातारः सुविहितशिरोमणयो विद्वन्मणयः सर्वप्राचीना इम आचार्यहरिभद्रपादाः कतमस्य भूभागस्यावतंसीबभूवुः ? कस्य वा गुरोः पट्टप्रभावकतामातेनुः ?, कियतो वा सर्वसंख्यया ग्रन्थान् विरचयामासुः कदा चैते त्रिदशाधिपतेरातिथ्यमाभेजुरिति । अत्र च ____“केन ? इत्याह-हरिभद्राचार्येण, यः किल श्रीचित्रकूटाचलचूलानिवासी प्रथमपर्याय एव स्फुटपठिताष्टव्याकरणः सर्वदर्शनानुयायित
कर्कशमतिमतामग्रगण्यः प्रतिज्ञातपरपठितग्रन्थानवबोधतच्छिष्यभाव आवश्यकनियुक्तिपरावर्तनाप्रवृत्तयाकिनीमहत्तराऽऽश्रयसमीपलब्ध"चक्किदुगं हरिपणगं" इत्यादिगाथासूत्रो (विहित) निजनिपुणोहापोहयोगोऽपि कथमपि स्वयमनुपलब्धतदर्थस्तदवगमाय महत्तरोपदेशात् श्रीजिनभद्रा (टा) चार्यपादमूलमवसर्पन्नन्तरा जिनबिम्बाऽवलोकनसमुत्पन्नानुत्पन्नपूर्वबहलप्रमोदवशात् समुच्चरित “वपुरेव तवाऽऽचष्टे इत्यादि
१ अत्र चित्रकूटाचलचूलानिवासित्वमभिहितम् , प्रभावकचरित्र-गणधरसार्धशतकवृत्यादिषु तु सर्वत्रैषां चित्रकूटाचलासन्नं चित्रकूटनगरमेव निवासभूमिरिति दृश्यते । सुमतिगणिकृतायां गणधरसार्धशतकवृत्तौ तु–“एवं सो पंडित्तगब्वमुन्वहमाणो हरिभद्दो नाम माहणो" इत्यनेन ब्राह्मणत्वमात्रं प्रतिपादितं न पुरोहितत्वम् । एवं चित्रकूटाधिपते राज्ञो नामापि तत्र न निर्दिष्टम् ।
Jain Education Inter
For Private & Personel Use Only
H
ainelibrary.org