Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 6
________________ ग्रन्थकार-1 परिचय: धर्मद्विपस्य दशनाविव पापवृक्षक्षोदक्षमौ जगति यो विशदौ विभातः॥३॥ अस्ताघवाड्मयपयोनिधिमन्दराद्रिमुद्राजुषोः किमनयोः स्तुमहे महिम्नः। बाल्येऽपि निर्दलितवादिगजौ जगाद यौ व्याघ्रसिंहशिशुकाविति सिद्धराजः॥४॥ सिद्धान्तोपनिषन्निषण्णहृदयो धीजन्मभूमिस्तयोः पट्टे श्रीहरिभद्रसूरिरभवच्चारित्रिणामग्रणी। भ्रान्त्वा शून्यमनाश्रयैरतिचिराद् यस्मिन्नवस्थानतः संतुष्टैः कलिकालगौतम इति ख्यातिर्वितेने गुणैः ॥५॥ श्रीविजयसेनसूरिस्तत्पट्टे जयति जलधरध्वानः । यस्य गिरो धारा इव भवदवभवदवथुविभवभिदः॥६॥" पाण्डतहरगोविन्ददासमहाशयस्तु विवेकमञ्जर्यादिटीकाकारं कविनाम्ना विख्यातं बालचन्द्रसूरिमप्यस्यैव सूरेः शिष्यत्वेनोल्लिखितवान् , अयं च तस्योल्लेखः-"आसडकविकृतविवेकमजरीवृत्तिकर्ता बालचन्द्रसूरिरप्यस्यैव हरिभद्रसूरेः शिष्यत्वेन निजं स्वग्रन्थप्रशस्तौ प्रत्यभिजानीते" इत्युक्त्वा स्वमन्तव्यं संसाधयितुम् "एतामासडिजैत्रसिंहसचिवेनाऽत्यन्तमभ्यर्थितो वृत्तिं श्रीहरिभद्रसूरिसुगुरोः शिष्यप्रशिष्यावधिः। वाग्देवीप्रतिपन्नसूनुरकृत श्रीबालचन्द्राख्यया विख्यातोऽधिपतिर्गणस्य गणिनीरत्नश्रियो धर्मजः॥१३॥ नागेन्द्रगच्छार्णवपार्वणेन्दुरेतां बृहद्गच्छनभोरविश्च । श्रीमान् विपूर्वो जयसेनसूरिः श्रीपद्मसूरिः समशोधयेताम् ॥ ॥ २ ॥ in Eduent an inte For Private & Personel Use Only Notjainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 584