Book Title: Dharm Sangrahani Part_2
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 3
________________ S अर्हम् । ग्रन्थकार-परिचयः। OSORUSACA*Gen संकीर्णे नयभङ्गमौक्तिकचयैः स्याद्वादसूक्तामृते, सिद्धान्ताम्बुनिधौ नितान्तगहने धीरप्रवेशोत्सवे । सत्त्वानां सुगमावगाहनकृते यः शास्त्रसेतुं नवं, चक्रे श्रीहरिभद्रसूरिरनिशं पायादपायात् स नः॥१॥ अथाऽत्र प्रस्तोतव्ये सर्वप्रथमतया विचारस्थानमिदमुपतिष्ठते-कियन्तो ननु हरिभद्रनामानः सूरयः समभवन् ! कतमश्च तेषु प्रस्तुतप्रकरणस्य विरचयिता?, तमिमं पर्यनुयोगं समाधातुमिह वक्तव्यं भवति-श्रूयन्ते किलैतन्नामानो बहवोऽपि सूरयः, तथाहि| (१) याकिनीमहत्तराधर्मपुत्रत्वेन प्रख्यातः आचार्यजिनदत्तशिष्यो जिनभटाज्ञावर्ती च विरहाङ्कभूषितललितविस्तरादिग्रन्थसंदर्भप्रणेता सर्वेषु प्राचीनतमः । अयमेव प्रस्तुतग्रन्थप्रणायकः । अस्य च सत्तासमयादिकमग्रे सविस्तरमभिधास्यते । 7 (२) खरतरजिनरङ्गीयपट्टावल्यादिषु बृहद्गच्छीय जिनभद्रसूरिशिष्यत्वेन निर्दिष्टः, जिनेश्वरसूरेः षष्ठः पट्टगुरुः, सिद्धर्मनाक्प्राक्तनो यः दूसदृशनामलब्धभ्रमेण प्रबन्धकोशकृता पाडीवालगच्छीयपट्टावलीकारेण च ललितविस्तराकर्तृत्वेनोपन्यस्तः । (३) बृहद्गच्छीयश्रीजिनेश्वरसूरीणां शिष्यो नवाङ्गवृत्तिकारश्रीमभयदेवसूरिबन्धुश्च । उक्तमिदं वाचनाचार्यचारित्रसिंहगण्युद्धृतायां गणधरसार्धशतकवृत्तौ Jan धर्म.प्र.२ । For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 584