Book Title: Cintamani Sarnika Of Dasabala
Author(s): Dharmanand Kosambi
Publisher: D D Kosambi

View full book text
Previous | Next

Page 9
________________ दशबल - कृता शुद्धौ सत्यां स चेदल्पः प्रदेयः शुद्धितस्तदा । शेषं च पञ्चषट्विभ्यः (३६५) पात्यं शिष्टमहर्गणः ॥ २१॥ चरार्धरविकायातभुजाफलकृते कृतः । .. वर्षोंधः पूषभिः (१२) क्षुण्णः साधिमासः खवह्निभिः (३०)॥ २२ ॥ हतश्चैत्रादितिथ्यात्यस्तिथिसिद्धयै तिथिवजः। स्वचतुःषष्टि (६४) भागोनश्चैत्रादितिथिसंचयः ॥ २३ ॥ विभुक्तविकलेनैष समवेतोदितादिता । अब्दक्षुण्णाक्षषट्च्याव्यः (३६५) शुद्ध यूनोऽङ्काभ्रभूयुतः (१०९) ॥ २४ ॥ पहर्गणः । वर्तमानभयोगाभ्यां गुरुवाराधहर्गणः । तिथीनां संचयोऽधस्थः स्थाणुभिः परिताडितः ॥ २५ ॥ मार्गणाग्निरसोपेत (६३५) स्यभ्रशैलाप्त (७०३) वर्जितः । सिन्धुसिन्धुर (८४) संयुक्तः कथ्यते युगुणोऽथ वा ॥ २६ ॥ वारक्षेपोऽब्धयः पञ्चवसुवेदा(४, ५, ४८)स्तिथेः स्मृतः । पिण्डप्रभृतयः शून्यमृक्षाणि शरबाहवः (०, २७, २५) ॥ २७ ।। स्तम्बेरमं चतुर्वेदै(४४८)स्तष्टव्यस्तिथिसंचयः। लब्धं तु तत्क्षणं नाम शिष्टं कोष्टकसम्मितिः ॥ २८ ॥ ऋणं वारोदयोऽभ्रं खमक्षरामाः कुसायकाः (० ऋ,०, ३५,५१) पिण्डप्रभृतयः शून्यं शैला नव दृशोधनम् (०,७,९धन, २)॥२९॥ आभ्यां तक्षणनिम्नाभ्यां प्रक्षेपौ हीनसंयुतौ। वारध्रवोऽर्कवाराद्यः पूर्णाद्यः पिण्डकः ध्रुवः ॥ ३० ॥ ध्रुवपिण्डप्रमातुल्यतिथिभिः परिताडिताः ५। । वक्ष्यमाणाः क्रमादेते वाराद्या व्योमगोशराः ॥ ३१ ॥ त्रयः शून्यं सरिन्नाथाः (०, ५९, ३, ४०) पिण्डप्रभृतयः पुनः।। भूरनं व्योममुन्यर्थी (१, २, ०,५७) इति राशिद्वयं कृतम् ॥ ३२॥ वारपिण्डनवाभ्यां तत्पिण्डाभावाय पातयेत् । शिष्टकोष्टमितौ योज्यास्तिथयः पिण्डसम्मिताः ॥ ३३.16

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21