Book Title: Cintamani Sarnika Of Dasabala
Author(s): Dharmanand Kosambi
Publisher: D D Kosambi

View full book text
Previous | Next

Page 16
________________ १० चिन्तामणि- सारणिका [॥ अथ प्रकीर्णप्रकरणम् ॥ ४ ॥] शाकोऽगनगनन्दोनः(९७७) सूर्यघ्नो (१२) माससंयुतः । द्विस्थो द्विघ्न (४) स्त्रिधाश्वानिद्वाढ्यो (२३७) द्यभ्रेषु (५०७) भाजितः ॥ १ ॥ युक्तस्तल्लब्धचन्द्राभ्यां (१) द्वचक्षक्ष्मा (१५२) शवेन्दुयुक् (१११) भूविश्वा(१३१)विहृतः प्राप्तोऽधिमाससहितो गणः ॥ २ ॥ अधिमासस्य यच्छेषस्वाभ्रार्काक्षलवोनितम् (५१२०) । तन्मुक्तोऽभीष्टमासन्नबाणविश्वघटीगण ः (१३५) ॥ ३॥ पष्ट्याप्तो मधुवो भादि स्याद्दर्शान्तेऽर्कचन्द्रयोः । नक्षत्रध्रुवकः क्षुण्णो द्वाभ्यां (२) योगध्रुवः स्मृतः ॥ ४ ॥ स पूर्वोक्तगणः क्षुण्णः सप्तार्चिर्जलराशिभिः (४३) । द्विस्थोंऽगाहीभचन्द्राब्धीष्वाप्तो (५४१८६८६) नो रसंविश्वयुक् । (१३६) ॥ ५ ॥ तत्षट्वेन्द्रलवो (१४०६) ब्ध्याढ्यो (४) गुण (३) क्षुण्णगणार्धयुक् । वारध्रुवो (व) श्वतष्टः स्यात् (७) लङ्कायां तपनोदयात् ॥ ६ ॥ माससंघोऽभ्ररुद्रघ्नः (११०) शरगोद्विरसान्वितः (६२९५) । श्रुती गिरिविश्वाप्त (१३७८४ ) स्तिथ्यन्ते पिण्डकध्रुवः ॥ ७ ॥ द्विघ्न (२) मा सगणेनाद्योऽष्टाक्षि ( २८ ) तष्टो भवेदसौ । तिथेर्वारादिको भोगः शून्यं नन्देषवो गुणाः ॥ ८ ॥ पूर्ण निर्झरिणीनाथाश्चक्षुस्तु दिनरोचिषः (०,५९,३,४०,२,१२) । अस्य पिण्डादिको भोगः शीतांशुर्गगनं नभः ॥ ९ ॥ वसुधाधरभूतानि पृथिवीधरबाहवः (१,००,५७,२७)। मानोर्मप्रभृतिर्भोगो वियद्वेदाधरादृशः ॥ १० ॥ • अङ्गभूतानि षड्वाणास्तिथिं प्रति निदर्शिताः । इष्टार्कः स्वदशांशोनेष्टतिथ्याद्यः क्षपापतिः ॥ ११ ॥ प्रतिमासं भवेद्भोगः (०,४,२१,५६,५६ ) सदा वारादिकस्तिथेः । चन्द्रमाः पृथिवी रामा आकाशश्वसना रसाः (१,३१,५०,६)॥१२॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21