Book Title: Cintamani Sarnika Of Dasabala
Author(s): Dharmanand Kosambi
Publisher: D D Kosambi

View full book text
Previous | Next

Page 14
________________ चिन्तामणि - सारणिका [ ॥ अथ योगप्रकरणम् ॥ ३ ॥] गणोऽधः शिवक्षुण्णः ( ११ ) सप्तशैलेन्दुभिर्हतः (१७७) । लब्धेनोपरिमो (१) युक्तो जायते योगसंचयः ॥ १ ॥ सषोडश (१६) युतः शैललोचनै (२७)रवशेषितः । योगाविष्कम्भपूर्वाः स्युः स्थिरक्षेपोऽथ कथ्यते ॥ २ ॥ क्रमाद्वारादिको वेदा गिरिबाणाः शराब्धयः (४,५७,४५) । पिण्डाद्यस्तुरगाक्षाणि वसुबाणाः कृताब्धयः ॥ ३ ॥ परिवर्तो मवेद्योगैज्येष्ठोऽष्टाङ्गयुगर्तुभिः (६४६८) । वाराद्याः षट् सुपर्वाणः स (शि) खिचन्द्रा हविर्भुजः (६, ३३, १३, ३) ॥ ४ ॥ पिण्डाद्या भानि गोबाणा भूतवाताः खबाहवः (२७,५९,५५,२०)। मध्यमः परिवर्तस्तु रन्ध्रत्रिमकरालयैः (४३९) ॥ ५ ॥ वाराद्यास्तत्र खं कुम्भि चन्द्रास्ताना रसेषवः (०,१८,४९,५६) । पिण्डाद्या भानि नन्दार्था वेदवारिधयो रसा (:) (२७,५९, ४४, ६) ॥ ६ ॥ कनीयः परिवर्तोऽपि विलोचनहगग्निभिः (३२२) । वारादि नवाम्भोधिगुणा मार्गणपावकाः (२, ९,३४,३५) ॥ ७ ॥ पिण्डाद्यः पुष्करं त्रीणि शैलरामाः स्वरेषवः (०, ३,३७,५७) । योगैर्ज्येष्ठतमः कुम्भिछिद्राग्निकृत सिन्धुभिः (४४३९८ ) ॥ ८ ॥ वारादयस्त्रयः शक्राश्चन्द्राक्षाणि स्वराग्नयः । पिण्डाद्या भानि गोबाणा नन्दाक्षाणीन्दुबाहवः (३, १४, ५१, ३७) ॥ ९ ॥ परिवर्तैः क्रमात् स्वैः स्वैस्तक्षे योगेषु संचयः । लब्धं तु तत्क्षणं नाम शिष्टं ( २७, ५९, ५९, २१) कोष्टकसम्मितिः ॥ १० ॥ संबन्धं परिवर्तनां वाराद्यः पिण्डकादि च । निजतत्क्षणसंक्षुण्णाः कुर्यादेकत्र संस्थितिम् ॥ ११ ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21