Book Title: Cintamani Sarnika Of Dasabala
Author(s): Dharmanand Kosambi
Publisher: D D Kosambi

View full book text
Previous | Next

Page 15
________________ दशबल - कृता स्थिरक्षेपकसंयुक्तं ध्रुवकः स्यात् पृथक् पृथक् । वाराधः पिण्डकाद्यश्च शेष कोष्टकसम्मितिः ॥ १२ ॥ प्रारभ्य वारध्रुवकः संयोज्यः प्रतिकोष्टकम् । योगभोगाः स्युरेवैते किञ्चित् किञ्चिदसंस्फुटाः ॥ १३ ॥ स्वत्रिदस्त्रांशरहिता (२३) शेषकोष्टकसम्मितिः । तष्टा कुम्भकरैः (२८) शेषं स्वाष्टाविंशतिकोष्टकः ॥ १४ ॥ स्वाष्टाविंशतिखण्डेन तिथिवद्रविका निजाः । परिस्पष्टा धनर्णाख्यैरामिभॊगाश्च संस्कृताः ॥ १५ ॥स्वकीयपिण्डनाडीभ्यः स्वाष्टाविंशतिकोष्टकैः । धिष्ण्ये यथा तथोत्पाद्य स्वर्णसंज्ञा विनाडिकाः ॥ १६ ॥ आमिश्च संस्कृताः कार्या भोगास्ते कोष्टकाः सदा । चरार्धस्य विनाडीभिर्देशान्तरपलैः सह ॥ १७ ।। भुजाफलपलैर्जाता पलैरपि च संस्कृताः । परिस्पष्टा भवत्येते योगभोगाः खगोदयात् ॥ १८ ॥ तिथिनक्षत्रयोगानां भोगास्ते परमार्थतः । यत्सिद्धं चन्द्रसूर्याभ्यां तदाद्यन्ता भवत्यमी ॥ १९॥ चन्द्रसूर्यप्रसादेन दुष्प्राप्यं प्राप्यते नभि (नृभिः) । चन्द्रार्कप्राप्तजन्मासौ मया तु तिथिसारणी ॥ २० ॥ यहच्छं योगानो गतिमधिगतार्थी प्रतिदिनं विजानीते सम्यग्गणितसरणौ प्राप्तिपटिमा । स सूर्येन्द्वोर्लोकानधिवसति भूयश्च रमते वरस्त्रीणां तुङ्गस्तनकलशयोर्मन्मथ इव ॥ २१ ॥ इति श्री-महाकारुणिक-बोधिसत्त्व-दशवल-विरचितायां चिन्तामणौ सारणिकायां योगप्रकरणं तृतीयं समाप्तम् ।।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21