Book Title: Cintamani Sarnika Of Dasabala
Author(s): Dharmanand Kosambi
Publisher: D D Kosambi
View full book text
________________
'दशबल - कृता पिण्डाद्या गगनव्योमव्योमद्विरदसागराः । नंध (२७,५५,३६,२०) दचन्द्रा पञ्चेषवो रसाः ॥ ८ ॥ (१) पिण्डप्रभृतयः खेन्दो(द) भूजिनाः शरसागराः (०,१,२४,४५) । परिवतैः क्रमात् स्वैः स्वैस्तत्क्षेत्रक्षत्रसंचयम् ॥ ९॥ प्राप्तं तत्क्षणमुद्दिष्टं शिष्टं कोष्टकसम्मितिः । ये स्वीयपरिवर्तेषु वारपिण्डाः प्रकीर्तिताः ॥१०॥ स्वस्वतक्षणनिन्नास्ते प्रक्षेप्याः क्षेपकस्थिरे । वाराधः पिण्डकाद्यश्च ध्रुवकः स्यात् पृथक् पृथक् ॥ ११ ॥ वारध्रुवेण योक्तव्याः कोष्टास्तच्छेषसम्मिताः । भवन्त्याकोष्टपर्यन्तमिमे भोगाः सुधान्वि(वि)षः ॥ १२॥ . स्वपञ्चत्रिंशदंशाढ्यं (३५) शेष कोष्टकसम्मितिः । तष्टानागाश्चिभिः (२८) शेषं पिण्डाष्टाविंशतिः स्वकाः ॥ १३॥ तत्पलैस्त्रिहताः पिण्डनाडिकाः स्युर्विनाडिकाः । आभिश्च संस्कृता भोगाः स्वाष्टाविंशतिकोष्टवत् ॥ १४ ॥ पिण्डयातासु नाडीषु गम्यासु पुनरन्यथा । चरार्धस्य विनाडीभिर्देशान्तरपलैः सह ॥ १५ ॥ भुजाफलपलैर्जातपरपि[ ण्डाश्च ] संस्कृताः । परिशिष्टा भवन्त्येव महापुरिदृढोदयात् (१) ॥ १६ ॥ नक्षत्रयोगपिण्डानां गतागम्याश्च नाडिकाः । .. चतसृणां विधातव्या मध्यदेया न या दिशाः ॥ १७ ॥ ज्येष्ठमध्यकनिष्ठादि पिण्डानां परिवर्तनैः । एतद्वशेन वाराणां मन्ये या परिवृत्तयः ॥ १८ ॥ इति नक्षत्रविज्ञानादिह प्राप्यौ(प्यो)र्जितश्रियम् ।
लोके हिममयूखस्य स्थिति बनात्यनीश्वराम् ॥ १९ ॥ इति महाकारुणिक-सत्त्वबोधि । दशबलविरचितायां चिन्तामणौ सारणिकायां
नक्षत्रप्रकरणं द्वितीयं समाप्तम् ॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21