Book Title: Cintamani Sarnika Of Dasabala
Author(s): Dharmanand Kosambi
Publisher: D D Kosambi

View full book text
Previous | Next

Page 11
________________ दशबल - कृता देशान्तरतया स्वर्ण वशतः प्रत्यहं दिशो(१) । द्विघ्नस्तिथिस्त्रिरेकः सन् करणान्यद्रि(धि ?)तिष्ठति ॥४७॥ बवंबालवमाचार्याः कौलवं तैतिलं गरम् । वणिज विष्टिरेतानि करणानि प्रचक्षते ॥ ४८ ।। आधं शकुनिसंज्ञं स्याद् द्वितीयं स्याचतुष्पदम् । नागाह्वयं तृतीयं स्यात् किंस्तुघ्नं स्याचतुर्थकम् ॥ ४९ ॥ स्थिराण्येतानि बहुले चतुर्थस्योत्तरार्धतः । अथ तिथ्यर्धभोगाय तिथिभ्यो भोगजन्मनाम् ॥ ५० ॥ गतगम्यान्तरार्धेन युक्तो नाखाग्नि(३०)नाडिकाः । गताद्गम्येऽधिके न्यूने भुक्तिः स्यात् करणेषु च ॥ ५१ ॥ प्रवृत्तिश्च निवृत्तिश्च तया तेष्वेव साध्यते ।। त्रिंशच्च(३०)रार्धनाडीभिर्दुघ्नीभिः संस्कृता दिनम् ॥ ५२ ॥ • घुमानः स्यात्तदूना तु षष्टिर्मानं निशां प्रति । स्वदेशनाडिकापूर्व चरार्धं वाध्वनः फलम् ॥ ५३ ॥ तुल्ययोः स्वर्णयोरैक्यमनैक्यं स्यादतुल्ययोः । निर्दिष्टस्वर्णकालाभ्यां कृत्स्ना वारप्रवृत्तयः ॥ ५४॥ स्वदेशेऽर्कोदयस्याग्रात् पृष्ठाच परिकीर्तिताः । समं चाऊदयेनैव क्षि(क्ष)पाचरपतेः पुशि (पुरि)॥ ५५ ॥ अवमं तत्स्पृशत्येको यत्र वारस्तिथित्रयम् । तिथिश्च यत्र वारांस्त्रास्त्रिदिनस्पृक् तदुच्यते ॥ ५६ ॥ निजध्रुवकजाः पिण्डनाड्यो द्विस्थाः समाहताः । स्वाष्टाविंशतिखण्डानां पलायैः स्वर्णशालिनाम् ॥ ५७ ।। यतोऽथ खण्डविश्व(श्लेषदलेन व्योमषद् हृताः। लन्धेन हीनसंयुक्तं तदैक्या यथाक्रमम् ॥ ५८ ॥ भोग्यादभ्यधिकोनं तु तद्भोग्यं खं स्फुटं विदुः । अनेन स्पष्टखण्डेन रविकाः पिण्डनाडिकाः ॥ ५९॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21