Book Title: Cintamani Sarnika Of Dasabala
Author(s): Dharmanand Kosambi
Publisher: D D Kosambi

View full book text
Previous | Next

Page 18
________________ १२ चिन्तामणि- सारणिका धनं वारेषु खं पूर्णपक्षाः खं श्रुतिसायकाः (०,२०,०,५४,४) । भसङ्ख्यैर्भैरिनपलैर्युक्ता न।ड्योऽब्धिभूमयः (२७,१४,१२,ऋ)॥२४ ऋणं पिण्डेषु वारेषु रसा गगनगेन्दवः । स्तम्बेरमभुवः शून्यं क्षेपमाचक्षते धनम् (६,१९,१८,०, ध)॥२५॥ स्वं नाड्यः स्वाग्निभिर्योगैद्वर्यन्धयोऽक्षपलान्विताः (३०,४२,५,ध)। पिण्डेऽदेतास्तु तारेषु स्वमभ्रं वेदभूमयः ॥ २६ ॥ आकाशतटिनीनाथाः प्रालेयांशुप्रभञ्जनाः (०, १४,५६, धर४२१) । गोद्वियोगैः स्मृतिपलैर्युक्ता नाड्यः शरेन्दवः (२९,१५,१८,ऋ) ॥२७ ऋणाख्याः पिण्डकेष्वेता वारक्षेपोऽथ कथ्यते । कृ(ऋ) तवोऽष्टेन्दवो रुद्रा अन्तरिक्षाग्नयो धनम् (६, १८, ११, ३०) ॥ २८ ॥ बुध्वा सर्वध्रुवान् स्वांस्तैर्दर्शसंबन्धिनः पुरा । तिथिनक्षत्रयोगैश्च पिण्डतुल्यैः समाहृतैः ॥ २९ ॥ स्वस्वभोगैरिमान् स्वान् स्वान् भ्रंशयेदथ वर्धयेत् । पिण्डाभावो ध्रुवो येन तिथ्यादीनां प्रतीयते ॥ ३० ॥ दृष्टपिण्डघटीनां च परिवर्तानुसारतः । स्वबुद्ध्या कृशतां कुर्यात् क्षेपैरुक्तैर्भयोगयोः ॥ ३१ ॥ आदितः कोष्टकान् स्वे स्वे तादृग्वारध्रुवान्विताः । तिथ्यादीनामिमे भोगा भवेयुरुपरिस्फुटाः ॥ ३२ ॥ पूर्ववद्रविकायातश्चरार्घायुक्तकर्मणा । संस्कृताः स्पष्टतां यान्ति तरणेरुदयात् परः ॥ ३३ ॥ यदा पुनर्विलोमेति (न) तिथ्यादीन् कर्तुमिच्छति । निजवारधुवेभ्यस्तान् कोष्टकान् शोध [ ये ] तदा || ३४ ॥ क्रमेण च तथा कुर्यात्स्वपिण्ड (स्य) घटीफलम् । उत्क्रमेण यथाकोष्टं चरार्धं रविकादि च ॥ ३५ ॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21