Book Title: Cintamani Sarnika Of Dasabala
Author(s): Dharmanand Kosambi
Publisher: D D Kosambi

View full book text
Previous | Next

Page 19
________________ दशबल - कृता इति निगदितशेषं सारणीं सारमेतच्छ्रवणपथमुपेतं शश्वदालोचयन्तः । इह हि विविधभोगात् (न्) प्राणिनः प्राप्य सम्यक् त्रिदिवमथ वसन्तश्चन्द्रलोकं लभन्ते ॥ ३६ ॥ इति महाकारुणिक-बोधिसत्व - दशबल - विरचितायां चिन्तामणौ सारणिकायां प्रकीर्णप्रकरणं चतुर्थं समाप्तम् ॥ ४ ॥ [ ॥ अथ संक्रान्त्यानयनम् ॥ ५ ॥ ] कृत्स्नस्तिथिध्रुवः प्रोक्तः सार्धं भोगैरनेकधा । भूयः संक्रान्तयोऽर्कस्य प्रतीयन्तां पृथक् पृथक् ॥ १ ॥ शाकः स्वरहयाङ्कनः क्षुण्णः पक्षशरैः (५२) पृथक् । क्ष्माङ्कद्विपनृपाप्तोनभूनखै(२०१) र्माजितः फलम् ॥ २ ॥ यत्साब्दसूर्य संक्रान्तेर्वारादिस्तद्भवध्रुवः । एष द्वादशभिः क्षेपैः समायुक्तः पृथक् पृथक् ॥ ३ ॥ स्वष्टाः संक्रान्तयः पूष्णो जा (त) स्तस्मादिहोदयात् । सप्तविंशतिभिः क्षेणैर्भतुल्यैः प्रतिसंचिताः ॥ ४ ॥ (इति) संक्रान्यानयनं समाप्तम् ( ॥ ५ ॥ ) [ अथ संवत्सरानयनम् ॥ ६ ॥] शाकः सप्तस्वराङ्कोन(९७७) त्रिस्थः स्मृतिशसंयुतः (१) । पञ्चाङ्गाढ्यः(६५)खगोभाग (९०) खकृशानुभि (३०)रन्वितः ॥ [१] ॥ तष्टषष्टया (६०) गुरोरब्दाः खगोशेषं चतुर्गुणम् । मध्यमार्कस्य च क्रान्ताः स्युः प्रयातान्यहानि च ॥ २ ॥ प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः । अङ्गिराः श्रीमुखो भावो युवा घाता तथैव च ॥ ३ ॥ १३ ईश्वरो बहुधान्यश्च प्रमादी विक्रमो वृषः । चित्रभानुः सुभानुश्च तारुणः पार्थिवो व्ययः ॥ ४ ॥

Loading...

Page Navigation
1 ... 17 18 19 20 21