Book Title: Cintamani Sarnika Of Dasabala
Author(s): Dharmanand Kosambi
Publisher: D D Kosambi
View full book text
________________
चिन्तामणि • सारणिका परिवर्तोऽत्र चेद्भावां(नां) विधिः प्राग्वद्भवेत्तदा । इति वारध्रवो यश्च पिण्डानां ध्रुवकश्च यः ॥ ३४ ॥ तिथिकोष्टमितिर्यावद्व्यवहर्तुममी कृताः। वारध्रुवोऽयमारभ्यः शिष्टकोष्टकसम्मिति : ॥ ३५ ॥ तिथिकोष्टैर्युतः शिष्टैोगः स्यादस्फुटस्तिथेः । स्तम्बेरमकरै(२८)स्तष्टा शेषकोष्टकसम्मितिः ॥ ३६ ॥ स्वाष्टाविंशतिसबंद्धाः शिष्टं कोष्टाः प्रकल्पयेत् । पलैश्च रविकाक्षुस्तैः(ण्णैः) स्वाष्टाविंशतिकोष्टजैः ॥ ३७॥ . धनर्णाक्षैर्युता न्यूना रविकाः स्युः परिस्फुटाः।। आमिरेव धनर्णाक्षरविकामिश्च संस्कृतः ॥ ३८ ॥ भुक्तपिण्डघटीक्षुण्णैः स्वाष्टाविंशतिकोष्टजैः । पलायैः संस्कृतश्चैष तिथिभोगः स्वखण्डवत् ॥ ३९ ॥ भुक्तपिण्डघटी त्रिंशदधिका वेत्रसंस्क्षरेत् (संस्कृता ?)। . भोग्याभिस्तत्र नाडीभिर्धनर्णाभ्यां विपर्ययः ॥ ४० ॥ चराध पञ्चमिभक्तं कोष्टकस्थं पलादि यत् । इष्टाक्षप्रभया क्षुण्णं स्वदेशे तन्निगद्यते ॥ ४१॥ तेन स्वर्णवशात् सार्धमध्यसंबन्धिभिः पलैः ।। भुजाफलस्य जातस्य विनाडीभिश्च संस्कृताः ॥ ४२ ॥ इति नाड्यादिकस्पष्टस्तिथिभोगः खगोदयात् । सौम्येतरदिशोर्यान्तैर्निजषड्भागवर्जितैः ॥ ४३ ॥ योजनैरुजयिन्याश्च षट्खाक्षि(२०६)सहितोज्झिताः । खाभिभक्ताः (४०) फलं यत्तत्पलच्छायाङ्गुलादिगा(१४३)॥४४॥ तवर्गात् सूर्यवर्गाया(१४४) मूलमक्षश्रुतिः स्मृता । षद(६)क्षुण्णाद्विषुवत्कर्णात् स्वदेशान्तरयोजनैः ॥ ४५ ॥ अन्यस्तादभ्रदिग्भक्ता(१००)द्विनाड्यादिफलं विदुः । लंकावन्तीकुरुक्षेत्ररेखायाः पूर्वपश्चिमे ॥ ४६ ॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21