Book Title: Cintamani Sarnika Of Dasabala Author(s): Dharmanand Kosambi Publisher: D D Kosambi View full book textPage 8
________________ चिन्तामणि - सारणिका लक्ष्यते या धनर्णाक्षः कोष्टकस्थैः पलादिभिः । पिण्डनाडीफलोत्पत्त्यै स्पष्टार्थ रविकासु च ॥ ८ ॥ शरा(ङ्गा)निमिताः (३६५) कोष्टा रविकाणां पृथक् पृथक् । तिर्योगस्य च क्षेपाः स्वर्णनाड्यादि चिह्निताः ॥ ९ ॥ मीनान्तमध्यमोष्णांशोः प्रवृत्ताः प्रतिवासरम् । भुजाफलस्य यातस्य चरार्धस्य च कोष्टकाः ॥ १० ॥ तावन्तो निखिला स्वर्णघटिकादिभिरन्विताः । ज्येष्ठमध्यकनिष्ठादीन् परिवर्तान् प्रचक्ष्महे ॥ ११॥ ध्रुवयोर्धिष्ण्ययोगानां पिण्डाभावस्य सिद्धये । एतेषामेव संबन्धाः स्थिता वारध्रुवा निजाः ॥ १२ ॥ तिथिनक्षत्रयोगानां प्रतिबद्धाः पृथक् पृथक् । कदाचित् सर्वथा शून्यं जायते पिण्डकध्रुवः ॥ १३ ॥ कदाचिद्विकलेनाद्यो गम्येन च गतेन च । तिथ्यादिरित्थमामूलप्रवृत्ताः कोष्टकास्त्रिधा ॥ १४ ॥ शाकः स्वरहयाको नः (९७७) क्षुण्णः पक्षः शरैः (५२) पृथक् । क्ष्माङ्कद्विपनृपाप्तो नः(१६८९१) सिद्धाढ्यः(२४) क्ष्मानखैहतः ___ (२०१) ॥ १५॥ दिनादिः स्यात् पृथक् साब्दः सैको वारध्रुवः स्मृतः। पमिनीबन्धुवारादिरजादौ मध्यमे रवौ ॥ १६ ॥ ततोऽन्दौघः शिवः (११) क्षुण्णः पृथक् द्विस्थोदिगा(१०) हतः । शैलामराक्ष(५३३७)लब्धाढ्यश्चक्षुर्मुनिभिरन्वितः (७२) ॥ १७ ॥ नभोऽत्यष्टयंश (१७०) संयुक्तस्तत्त्वयुक् (२५) त्रिंशता(३०)हृतः । यल्लब्धमधिमासा स्युः शेषं शुद्धिः प्रकीर्तिता ॥ १८ ॥ खं(०) रूपं(१) द्वौ(२) त्रय (३) ३श्चान्द्री शुद्धिर्यदि तु जायते । व्येकास्तदाधिमासा स्युः शुद्धिस्तु त्रिंशता(३०)धिका ॥ १९ ॥ शुद्धया यातुर्तुमिहींनश्चैत्रादितिथिसंचयः । अब्दमध्येऽधिमासश्चेत्तद्याततिथिभिर्युतः ॥ २० ॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21