Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia
View full book text
________________
प्रबन्धः प्रबन्धकोशेत्यपराह्वये
RUS बिन्दवः श्रीयशोवीर !, मध्यशून्या निरर्थकाः ।। सङ्ख्यावन्तो विधीयन्ते, त्वयैकेन पुरस्कृता ॥१॥ यशोवीर ! लिखत्याख्या, 'यावच्चन्द्रविधिस्तव ।
न भाति भुवने ताव-दाद्यमप्यक्षरद्वयम् ॥२॥ अंत एव नः सदा भवद्दर्शन रणरणकाक्रान्तमेव स्वान्तमासीत् । ५ इदानी चारुसम्पन्नं भवदीयसाङ्गत्यम् , तदपि विशेषतः 'श्रीमन्नेमिदृष्टौ । ततो यशोवीरो व्याहरति
श्रीमत्कर्णपरम्परागतभवत्कल्याणकीर्तिश्रुतेः
प्रीतानां भवदीयदर्शनविधावस्माकमुत्कं मनः । श्रुत्वा प्रत्ययिनी सदा ऋजुतया स्वालोकविसम्भणी १०
दाक्षिण्यैकनिधानकेवलमियं दृष्टिः समुत्कण्ठते ॥१॥ इत्याद्याः सङ्कथाः पप्रथिरे । प्रासादबिम्बप्रतिष्ठोत्सवाः संवृत्ताः । ___ श्रीवस्तुपालेन एकदा चैत्यस्य दूषणभूषणानि पृष्टो यशोवीरः प्रोचे-देव ! शोभनदेवः सूत्रधारः शोभनः, ततो युक्तं एतदम्बा कीर्तिस्तम्भोपरिस्थिता एकामङ्गुलीमूर्वीकृत्य वर्तमाना घटिता । १५ सं तु कर्मकर एव द्रव्यलोलुपः । अत्र तव मातुतिर्विलोक्यते येन दाता दुर्लभः।
शतेषु जायते शूरः, सहस्रेषु च पण्डितः
वक्ता शतसहस्रेषु, दाता भवति वा न वा ॥१॥ इत्यादि किमुच्यते ?। प्रासादः परमतमः । परं दोषा अपि सन्ति । २० प्रासादापेक्षया सोपानानि हस्वानि १ स्तम्भे बिम्बान्याशातनाभाजनं स्युः २ द्वारप्रवेशे व्याघ्ररूपाणि पूजाऽल्पत्वाय स्युः ३ जिनपृष्ठे पूर्वजारोपणात् पाश्चात्यानामृद्धिनाशो भविता
१ अनुष्टुप् । २ घ 'यावञ्चिन्द्र विधिः । ३ अनुष्टुप् । ४ घ-'श्रीनेमिः ' । ५'विधौ नास्माकमुत्कं मनः' । ६ शार्दूल० । ७ ख- 'ततोऽपि न युक्तं' । ग-पुस्तके 'सतु' एतदारभ्य 'किमुच्यते' इति पाठाधिक्यम् । ९ अनुष्टुप् । १० ख-'प्रदेशे'। ११ ब-नाशिनी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320