Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia
View full book text
________________
प्रबन्ध
प्रबन्धकोशेवपराहये निर्यामणां कुर्वन्ति । मन्त्रीश्वरोऽपि समाधिना सर्व शृणोति, श्रद्दधाति च । अनशनं प्रतिपद्य यामे गते स्वयं भणति
न कृतं सुकृतं किञ्चित्, सतां संस्मरणोचितम् । मनोरथैकसाराणा-'मेकमेव गतं वयः ॥१॥ यन्मयोपार्जितं पुण्यं, जिनशासनसेवया । जिनशासनसेवैव, तेन मेऽस्तु भवे भवे ॥२॥ या रागिणि विरागिण्यः, स्त्रियस्ताः कामयेत् कः ? । तामहं कामये मुत्तिं , या बिरागिणि रागिणी ॥३॥ शास्त्राभ्यासो जिनपतिनुतिः सङ्गतिः सर्वदाऽऽर्यैः
सद्वृत्तानां गुणगणकथा दोषवादे च मौनम् । सर्वस्यापि प्रियहितवचो भावना चात्मतत्त्वे
सम्पद्यन्तां मम भवभवे यावदाप्तोपवर्गः ॥४॥ इति भणन्नेवास्तमितो जैनशासनगगनमण्डनमृगाङ्कः श्रीवस्तुपाला । तदा निर्ग्रन्थैरपि तारपूत्कारमरोदि । का कथा सोदरादीनाम् ! । मन्त्रिणि दियं गते श्रीवर्धमानसूरयो वैराग्यादा- १५ म्बिलवर्धमानतपः कर्तुं प्रारेभुः । मृत्वा शर्केश्वराधिष्ठायकतया जाताः । तैमन्त्रिणो गतिर्विलोकिता, परं न ज्ञाता । ततो 'महाविदेहे' गत्वा श्रीसीमन्धरो नत्वा पृष्टः । खाम्याह-अत्रैव 'विदेहे' 'पुष्कलावत्यां' 'पुण्डरीकिण्यां' पुरि कुरुचन्द्रराजा सञ्जातः । स तृतीये भवे सेत्स्यति । अनुपमदेजीवस्तु अत्रैव श्रेष्ठिमुताऽ- २० टवार्षिकी मया दीक्षिता पूर्वकोट्यायुः । प्रान्ते केवलं मोक्षश्च । सा एषा साध्वी व्यन्तरस्य दर्शिता । तदनु तेन व्यन्तरेणात्रागस्य तयोर्गतिः प्रकटिता । सत्र तेजःपालो विलपति
आह्लादं कुमुदाकरस्य जलधेर्वृद्धिः सुधास्यन्दिभिः प्रद्योतैर्नितरां चकोरवनितानेत्राम्बुजप्रीणनम् ।
१ ग-'मते' । २ घ-'मेवमेव' ।३-५ अनुष्टुप् । ६ घ-'पदनतिः' । ७ मन्दाक्रान्ता । 'मन्त्रिणि' इसारभ्य 'प्रकटिता' प्रान्तः पाठः क-प्रतौ नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320