Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia
View full book text
________________
प्रबन्धः 1
प्रबन्धक शेत्यपराये
' स्तम्भपुर' मागता । नौवित्तगृहेऽतिथित्वेनास्थात् । सा समागता सचिवेन चरेभ्यो ज्ञाता । चराः प्रोक्ताः श्रीमन्त्रिणा - रे यदा इयं जलपथेन याति तदा मे ज्ञाप्या । गच्छन्ती ज्ञापिता तैः । मन्त्रिणा निजकोलिकान् प्रेष्य तस्याः सर्व कोटीम्बकस्थं वस्तु ग्राहितम् । सुष्ठु रक्षापितं च क्वचित् । तदा नौवित्तैः पूत्कृतमुपमन्त्रि- देव ! जरत्येकाऽस्मयूथ्या हजयात्रायै गच्छन्ती त्वत्पदे तस्करैण्टिता । मन्त्रिणा पृष्टम् का सा जरती ? । तैरुक्तम्देव ! किं पृच्छसि ? । सा मोजदीनसुरत्राणमाता पूज्या । मन्त्रिणा भणितं मायया- अरे वस्तु विलोकयत विलोकयत | दिनद्वयं विलब्यानीयार्पितं सर्वम् । जरती तु खगृहे आनिन्ये । विविधा भक्तिः १० क्रियते । पृष्टा च किं हजयात्रेच्छा व: ? । तयोक्तम् - ओमिति । तर्हि दिनकतिपयान् प्रतीक्षध्वम् । प्रतीक्षाञ्चक्रे सा । तावताssरासणाऽऽश्मीयं तोरणं घटापितम् । आनायितं च । मेलयित्वा विलोकितं च । पुनर्विघटितम् । रूतेन बद्धम् । सूत्रधाराः सह प्रगुणिताः । मन्त्रिणश्च मार्गश्चान्तरे त्रिविधोऽस्ति - एको जलमार्गः १५
,
अपरः करभगम्यः, इतरस्तु अश्वलङ्घ्यः । यत्र ये राजानोऽयोध्वा (?) यथोल्लङ्घ्यन्ते तथा सूत्रं कृतम् । राज्ञां उपदायै द्रव्याणि प्रगुणीकृतानि । एवं सामय्या सा प्रहिता तत्र । रचितं तोरणं मसीति'द्वारे । तत्र दीपतैलादिपूजाचिन्ता तद्राजपार्श्वाद् शाश्वती कारिता । दत्तं भूरि भूरि तत्र । उदभूद् भूरि यश: । व्यावृत्तां जरती । २० आनीता ' स्तम्भपुर' म् । प्रवेशमहः कारितः । स्वयं तदंह्रिक्षालनं चक्रे । एवं भक्त्या दिनदशकं स्थापिता स्वगृहे । तावता धवलकिशोरशतपञ्चकं अन्यदपि दुकूलगन्धराजकर्पूरादि गृहीतम् । वृद्धा प्रोक्ता - मातश्चलसि । यद्यादिशसि तत्र मानं च दापयसि तदाऽ इमप्यागच्छामि। तया भणितम् - तत्राहमेव प्रभुः । स्वैरमेहि । पूजा २५
२३९
१ ख- ' काटीबकस्थं ' । २ ' स्वयं सह भूत्वा ' इत्यधिको ग-पाठः । ३ घ'मशीति'. । ४ 'मसीद' इति भाषायाम् । ५ घ - 'दाप्सति' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320