Book Title: Chandraprabh Charitram Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri Publisher: Tukaram Javaji View full book textPage 7
________________ ( २ ) जलदावलोकनेन राज्ञो निर्वेदप्राप्तिः । राजा श्रीकान्ताख्याय सूनवे राज्यभारं समर्प्य समाचरिततपश्चर्यः सौधर्मे श्रीधराख्यो देवोऽजनीति वर्णनम् ॥ ५ सर्गः - धातकीखण्डे इषुकारगिरिरस्तीति कथनम् । तत्पूर्वभरतेऽलकाख्यदेशवर्णनम् । तत्र कोसलाख्यनगरीवर्णनम् । तदधिपतेरजितंजयाख्यस्य राज्ञो वर्णनम् तन्महिष्या जितसेनाया वर्णनम् । स श्रीधराख्यो देवोऽजितसेन इति संज्ञया तयोः पुत्रत्वमगादिति वर्णनम् । कुमारवर्णनम् । तस्मै श् राजा यौवराज्यपदवीं प्रायच्छदिति वर्णनम् । परिष्कृतायां संसदि राज्ञोऽग्रे चन्द्ररुचिनाम्नासुरेण युवराजोऽपहृत इति वर्णनम् । पुत्रं प्रति राज्ञो विलापवर्णनम् । तपोभूषणाख्यस्य यतेरागमनवर्णनम् । यतिसमीपे राज्ञः पुत्रप्राप्तिचिन्तानिवेदनवर्णनम् । 'कतिपयैर होभिस्तव सूनुरागमिष्यति' इति राजानं प्रति मुनेराश्वासनम् ॥ ६ सर्गः - असुरेण मुक्तस्य युवराजस्य मनोरमाख्ये सरसि निपतनवर्णनम् । तत उत्तरणवर्णनम् । परुषाख्याटवीवर्णनम् । पर्वतवर्णनम् । वनसीमान्तपरिज्ञानार्थे तदुपरि युवराजारोहणम् । तत्र केनचित्पुरुषेण साकं युवराजस्य विवा`दवर्णनम् । तयोर्युद्धवर्णनम् । युवराजेन पराजितः स पुरुषो दिव्यरूपमास्थाय 'अहं हिरण्यनामा त्रिदशोऽस्मि' इत्यभिधाय ' वरं वृणीष्व' इत्यवोचदिति वर्णनम् । तन्मुखेन चन्द्ररुचियुवराजयोर्वैरकारणवर्णनम् । युवराजो हिरण्यप्रभावेणात्मानं वनसीम्नि व्यलोकयदिति वर्णनम् । तत्र पलायमानाञ्जनान्दृष्ट्वा तत्कारणं कंचित्पृष्टवानिति वर्णनम् । तन्मुखेन 'अरिंजयाख्ये देशे विपुलाख्यपुरे जयवर्मराज्ञः शशिप्रभाभिधानां कन्यां महेन्द्राख्यो भूपतिर्बलादपहर्तुमागतः' इति युद्धश्रवणम् । तत्र गमनम् । तत्र महेन्द्रं निहत्य जयवर्मणा सह युवराजस्य राजभवनप्रवेशवर्णनम् । युवराजे शशिप्रभाया अनुरागवर्णनम् । तदाकर्ण्य संतुष्ट जयवर्मा युवराजाय वाचा कन्यां प्रादादिति वर्णनम् । विजयार्धगिरेर्दक्षिणत आदित्याख्यस्य नगरस्य वर्णनम् । तदधीश्वरो धरणीध्वजाख्यखेचरेन्द्रः कदाचित्सभायां कंचन क्षुल्लकमद्राक्षीदिति वर्णनम् । तन्मुखाच्छशिप्रभापरिणेतुः सकाशादात्मनो बधमश्रौषीदिति वर्णनम् । तेन जयवर्मणः पत्तनं रुद्धमिति वर्णनम् । जयवर्माणं प्रत्युद्धवाख्यस्य दूतस्य प्रेषणम् । दूतोक्तिवर्णनम् । दूतविसर्जनम् । जयवर्मसमीपेऽजितसेनस्य धरणीध्वजवधप्रतिज्ञावर्णनम् । संग्रामार्थे दिव्यरथागमनवर्णनम् । संग्रामवर्णनम् । धरणीध्वजवधः । अजितसेनस्य शशिप्रभया सहPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 190