Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 6
________________ चन्द्रप्रभचरितस्य विषयानुक्रमणिका । १ सर्गः - मङ्गलाचरणानि । सज्जनदुर्जनवर्णनम् । मङ्गलावतीनाम्नो देशस्य वर्णनम् । तत्र रत्नसंचयाख्यनगरवर्णनम् । रत्नसंचयाधिपतेः कनकप्रभस्य वर्णनम् । तन्महिष्याः सुवर्णमालाया वर्णनम् । तत्तनयस्य पद्मनाभस्य वर्णनम् । एकदा सौधश्टङ्गारूढो राजा निकटवर्तिनि पल्वले पानीयपानार्थमागतस्य गोकुलस्य मध्ये एकं महापङ्कनिमग्नं म्रियमाणं जरद्गवं विलोक्य परं निर्वेदमगादिति वर्णनम् । राजा राज्यं पद्मनाभाय वितीर्य तपोऽग्रहीदिति वर्णनम् । पद्मनाभोऽपि निजात्मजाय सुवर्णनाभाय यौवराज्यं दत्वा राजभोगाननुबभूवेति वर्णनम् ॥ -२ सर्गः - राज्ञो वनपालमुखाच्छ्रीधराख्यस्य मुनेरागमनश्रवणम् । मुनेस्तत्प्रभावेणोद्यानस्य च विभूतिवर्णनम् । सपरिकरस्य राज्ञो मुनिदर्शनार्थे गमनवर्णनम् । मुनिसमीपे सप्रश्रयं राज्ञो जीवाजीवादिविषयकः प्रश्नः । राजानं प्रति मुनेरुपदेशः । पुना राज्ञो मुनिं प्रति पूर्वजन्मविषयकः प्रश्नः । राजानं प्रति मुनेरुत्तरदानम् । तत्र सुगन्धिनाम्नो देशस्य वर्णनम् ॥ ३ सर्गः — श्रीपुराख्यनगरवर्णनम् । तन्नायकस्य श्रीषेणाख्यभूपतेर्वर्णनम् । तन्महिष्याः श्रीकान्ताया वर्णनम् । अनपत्यतया देवीकृतशोकवर्णनम् । दैवायत्ते वस्तुनि कः शोक इति राजोक्तिवर्णनम् । कदाचिद्राज्ञ उद्यानगमनवर्णनम् । तत्र वियतोऽकस्मादवतीर्णे नानन्ताख्यचारणमुनिना सह राज्ञः समागमवर्णनम् । मुनिस्तुतिः। ' अद्यापि मम मानसं किमु शान्ति नोपगच्छति' इति मुनिं प्रति राज्ञः प्रश्नः 'यावत्तव मनसि सूनुस्पृहा जागर्ति तावन्न विरतिं यासि' इत्यादि मुनिवाक्यवर्णनम् । नन्दीश्वराराधनमहिम्ना देवी गर्भ दधारेति वर्णनम् । दोहदवर्णनम् । भावितीर्थकरस्य श्रीवर्मणो जन्मोत्सवर्णनम् ॥ ४ सर्गः - श्री वर्मणो वर्णनम् । तस्य प्रभावत्या सह परिणयः । तस्मै यौवराज्यपददानम् । राज्ञो राज्यसौख्यानुभवः । कदाचिदाकाशात्पतन्तीमुल्कामवलोक्य राजा विरक्तो बभूवेति वर्णनम् । विषयगर्हणम् । युवराजं प्रति राज्ञ उपदेशः । राजा राज्यं सूनवे वितीर्य श्रीप्रभाख्यमुनेः पादमूले तपस्तप्त्वा कैवल्यमगादिति वर्णनम् । श्रीवर्मणो दिग्विजयवर्णनम् । तस्य श्रीपुरं प्रत्यागमनवर्णनम् । मार्गे नानावस्तुवर्णनम् । पुरप्रवेशः । कदाचिच्छारद

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 190