Book Title: Bhini Kshanono Vaibhav
Author(s): Shilchandrasuri
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 47
________________ श्री अजितनाथजिनगीतिः ॥ अद्वितीयं द्वितीयं जिनं संस्तुवे कर्ममल्लैरजितमष्टसङ्ख्यैः अजितनाथाभिधं विजितसकलद्विधं त्रिविधमभिवन्दितं त्रिदशमुख्यैः ॥ १ ॥ कलभगतिगामुकं मुक्ति रतिकामुकं मत्तगजलाञ्छितं पादपद्मे स्वर्णवर्णच्छविं पुण्यपङ्कजरविं नाशयन्तं च पापापदं मे ॥२॥ रागभङ्गं त्वया कुर्वतोपार्जितो विश्वरागो महच्चित्रमेतत् । द्वेषविजयं तथा कुर्वता तदुपरि द्विष्टमेवेत्यहो ! चित्रमपि तत् ॥३॥ धर्मसाम्राज्यवरनायकं दायकं धर्मतत्त्वस्य परिचायकं च । भीमभवसिन्धुतस्त्राणशीलं सदा भावप्राणेश्वरं मामकं च ॥४॥ Jain Education International ૪૨ ORL For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74