Book Title: Bhini Kshanono Vaibhav
Author(s): Shilchandrasuri
Publisher: Bhadrankaroday Shikshan Trust
View full book text
________________
२२
श्रीनेमिनाथजिनगीतिः ॥
भगवन् ! हृदयं मेऽद्य विषण्णं नेमिजिनेश्वरचरणासन्नं भ्रान्त्वा तत्तु निषण्णम्... सर्वजनानुद्धारयसि त्वं पापात् संचाराच्च ख्यातिमिति श्रुत्वा बहुजनतो जातं तदतिप्रसन्नम्...
आत्मोद्धारार्थं बद्ध्वाऽऽशां तत् त्वां तत आयातं किन्तु न जाने केन हेतुना तत्कार्यमसम्पन्नम्... पृच्छति तत् साक्रोशं किं मम भव्यत्वं नहि पक्वं ? पापलीनता किं तीव्रा मे ? पुण्यं किमुत विपन्नम् ?'....
नेदं दृढप्रहारी नो वा - ऽर्जुनमाली न जमालिः स्यादवगणना तस्य तदपि यदि तत् किं न स्यात् खिन्नम् ?.. ४ पशचोऽप्युद्धरणीयाः स्वामिन् ! तव चित्ते प्रतिभान्ति 'उद्धर्तव्यो नृपशुरयमपि' किमु तव मनसि न लग्नम् ?.... ५ अथवा हृदय ! विषादशीलतां त्यक्त्वा, धृत्वा धैर्यं जिनपतिकरुणावृष्टि-प्रतीक्षा करणे तिष्ठ निमग्नम्....
Jain Education International
१
૬૩
६
For Private & Personal Use Only www.jainelibrary.org
Page Navigation
1 ... 66 67 68 69 70 71 72 73 74