SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ २२ श्रीनेमिनाथजिनगीतिः ॥ भगवन् ! हृदयं मेऽद्य विषण्णं नेमिजिनेश्वरचरणासन्नं भ्रान्त्वा तत्तु निषण्णम्... सर्वजनानुद्धारयसि त्वं पापात् संचाराच्च ख्यातिमिति श्रुत्वा बहुजनतो जातं तदतिप्रसन्नम्... आत्मोद्धारार्थं बद्ध्वाऽऽशां तत् त्वां तत आयातं किन्तु न जाने केन हेतुना तत्कार्यमसम्पन्नम्... पृच्छति तत् साक्रोशं किं मम भव्यत्वं नहि पक्वं ? पापलीनता किं तीव्रा मे ? पुण्यं किमुत विपन्नम् ?'.... नेदं दृढप्रहारी नो वा - ऽर्जुनमाली न जमालिः स्यादवगणना तस्य तदपि यदि तत् किं न स्यात् खिन्नम् ?.. ४ पशचोऽप्युद्धरणीयाः स्वामिन् ! तव चित्ते प्रतिभान्ति 'उद्धर्तव्यो नृपशुरयमपि' किमु तव मनसि न लग्नम् ?.... ५ अथवा हृदय ! विषादशीलतां त्यक्त्वा, धृत्वा धैर्यं जिनपतिकरुणावृष्टि-प्रतीक्षा करणे तिष्ठ निमग्नम्.... Jain Education International १ ૬૩ ६ For Private & Personal Use Only www.jainelibrary.org
SR No.001470
Book TitleBhini Kshanono Vaibhav
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages74
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Worship, & Stavan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy