________________
-
श्रीनमिनाथजिनगीतिः॥
अधुना नमिजिनचरणौ शरणं अद्यावधि स्वच्छन्दतयाऽहं कृतवान् विभुविस्मरणम्... निर्ध्वस्ताध्यवसायवशेनाऽऽदृतवाननर्थकरणं उन्मत्तेन च विहितं न मया हितवाक्यानां श्रवणम्.... १ ।
प्रमप्रसन्नोऽहमभूवं बत कृत्वाऽनिष्टाचरणं दुर्गतिभीरपि स्पृशति न चित्तं कीदृग मोहावरणम् !... २
पापं पापत्वेन क्षणमपि क्वचिदपि कुरुते त्रसनं चिन्तयामि धाष्ट्येन तदा जिन-कृतबहुदुष्टोद्धरणम्... ३ क्रियदेवं हे तात ! तवाडग्रे स्वीयं स्वैरविहरणं वर्णयामि लज्जास्पदमहकं श्रेष्ठमितः स्यान्मरणम्... ४ पापत्यागे प्रथम पदमिह जिनपदपङ्कजवरणं अधुना दुरितत्रस्तो विदधे स्यान्मम भवसन्तरणम्.... ५
आत्मसमर्पणमद्य विभो ! तव-कुर्वे, कुरु स्वीकरणं तव कृपया शुभशीलो भूत्वा मोक्ष्ये दुष्टाचरणम्.... ६
-
६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org