Book Title: Bhini Kshanono Vaibhav
Author(s): Shilchandrasuri
Publisher: Bhadrankaroday Shikshan Trust
View full book text
________________
श्रीधर्मनाथजिनगीतिः ॥
स्वामिन् ! कीदृगहं गुणरहितः? अभयदानमिह जीवनिकाये देयमवश्यं मुनिना किन्त्वल्पामपि यतनां नाऽहं कुर्वे दानविरहितः.... १ मनसा वाचा क्रियया चाऽपि पाल्यं यतिना शीलम् अस्खलितस्खलनाभिस्तदपि नु जातः शीलविरहितः... २ अभ्यन्तरमथ बाह्यं च तपस्तप्यमेव ननु किन्तु गलितबलीदर्दन्यायेनाऽभूवं तपसा रहितः... भाव एव चारित्रप्राणा भावो धर्माधार: किन्तु विभाववशेन मयाऽहं विहितो भावविरहितः... ४ मूलोत्तरगुणरहितोऽपि स्वं मन्ये हन्त सुविहितम् दम्भदिग्धधिषणः को मादृक स्यान्मम सृष्ट्यामहितः... ५ यद्यप्यगुणोऽस्म्येवं भगवन् ! तदपि त्वयि, तव मार्गे भक्तिरस्ति सुदृढा निष्कामा मम हृदि हे जनमहित !.... ६ गुण एकोऽयं मयि चिरकालं विकसतु शतगुणशाखः धर्मजिनेशाऽहं येनाऽऽशु गुणशीलः स्यां स्वहितः... ७
NO
५६
QR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74