________________
१४
श्रीअनन्तनायजिनगीतिः॥
श्रीअनन्तमनन्तगुणाकर-मन्तकरं भवजलधे रे स्तौम्यनन्तपदप्रापणसेतुं हेतुं सुगुणसमृद्धे रे.....
तव गुणसागरतो गुणमेकं छेकं गुणमय ! देहि रे रोरं मामथवा हे जिनवर ! गुणचौरं प्रविधेहि रे...
उपदिष्टं भवतैव विभो ! यद् ‘दानं पात्रे देयं' रे स्वयमेतलाऽऽचरसि तदत्र नु किं मयका विज्ञेयं रे ?...
३
चेदपात्रमरम्यहरू भगवन् ! तर्हि न याचे प्रचुरं रे पात्रत्वं त्वं मयि सम्पादय केवलममात्रमधुरं रे....
४
पात्रतया तव सेवनशीलो भवितुं नाथ ! समीहे रे वितर वितर करुणाकर ! जिनवर ! नाऽधिकमतोऽहमीहे रे....५
*
५५
L
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org