Book Title: Bhini Kshanono Vaibhav
Author(s): Shilchandrasuri
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 63
________________ श्रीकुन्थुनाथजिनगीतिः ॥ कर्मपरिपन्थिनं कुन्थुनाथं जिनं विगतवृजिनं मुदाऽहं श्रयामि चरणपङ्कजयुगं सेवमानोऽनघं दुरितपुऑ द्रुतं नाशयामि... १ । सेवना कर्तुमतिदुष्करा यद्यपि स्खलनरहितेति जानामि नाथ ! तदपि तत्रोद्यतरतत्र खलु कारणं तीव्रश्रद्धैव किल भुवननाथ !...२ कृतपरीक्षोऽहमितरेषु देवेषु वै तर्कगम्यं न तेषां स्वपम् काचवच्चकचकन्मुग्धमेवाऽऽकृषद् दूरतरत्यक्तनिजशुद्धरुपम्...३ .. पक्षपातं विना यदि परीक्षे विभो ! बुद्धिसाङ्गत्यमसि तदा त्वम् स्वपरशुद्धात्मरूपप्रकाशनपटु-र्नैव प्रतिभाति को जिन ! विना त्वाम्...४ एचमिह तारतम्यं स्फुटं वीक्ष्य हे नाथ ! तव चाडपरेषाममानम् सेवनां देव ! नाऽहं प्रकुर्वे कथं सन्दधानस्त्वयि श्रद्दधानम्.... ५ सेवनापद्धतिर्विगलिताहंमतिर्विहितशरणागतिर्वसति चित्ते यदि तदा शुद्धशीलं समनुभूय हे ! स्थानमहमाप्नुयां देव हृदि ते...६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74