Book Title: Bhini Kshanono Vaibhav
Author(s): Shilchandrasuri
Publisher: Bhadrankaroday Shikshan Trust
View full book text
________________
श्रीचन्द्रप्रभजिनगीतिः ॥
देव ! देवानां दयालो ! हे विभो ! तुभ्यं नमः नाथ ! चन्द्रप्रभजिनेश्वर ! जय विभो ! तुभ्यं नमः । भाग्यहीनैर्नैव लभ्यस्त्वं विभो ! तुभ्यं नमः भागधेयैस्त्वामवाप्तोऽहं विभो ! तुभ्यं नमः
निष्कलङ्का निष्कलङ्कपथप्रदानेऽपि क्षमा शोभना शर्मप्रदाऽथ च शीतला शशधरसमा विशदबोधविधानतः सुनिराकृतशेषभ्रमा जयति भुवने देशना ते हे विभो ! तुभ्यं नमः
॥२॥
दृष्ट्वोज्ज्वलं वदनं त्वदीयं भवति मम हृदि कल्पना किमिदं सितांशुः किमुत भानुः किमथ कमलं काञ्चनम् । प्रथमः कलङ्की मध्यम: प्रखरस्तूतीयं च क्षयि वदनोपमं त्वत एव वदनं ते विभो ! तुभ्यं नमः ॥३॥
___४८
४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74