Book Title: Bhavishyadutta Charitram
Author(s): Meghvijay Gani, Mafatlal Zaverchand Gandhi
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________ भविष्यदत्तचरित्रम 147 विंशतितमो sधिकारः अथ भविष्यदत्तचरित्रे विंशतितमोऽधिकारः यस्य वाक्यमुधापाने, पात्रीभूय क्रमाम्बुजे / सुधारुचिर्यथार्थोऽभूत्स विभूत्यै जिनोऽष्टमः // 1 // निशम्य सम्यग् भूमीशः, भाग्भवं विस्मितो हृदि / चिन्तयामास धिग्मोह, येनाऽन्धीक्रियते जनः॥२॥ आराद्धा पञ्चमी मात्रा, पुत्रेणाऽप्यनुमोदिता / तत्पभावादियं राज्यलक्ष्मी, समुपस्थिता // 3 // भवेऽस्मिन् विभवेऽनित्ये, रज्यते सुधिया कथं / त्यज्यते सुविमृश्यैष, कष्टं बम्भज्यते तदा // 4 // विमृश्यैवं भविष्येण, भूपेनाऽभाणि सद्गुरुः / निमज्जन् मोहपाथोधौ, त्वयाऽधाऽहं समुधृतः // 5 // धन्यः स नन्दिमित्रो मे, सुहृत्याप्तसुरालयः / अकरिष्यं व्रतं तद्वन्नाऽमरिष्यं हि विद्युता // 6 // मुखैवैषयिकैस्तन्मे, पर्याप्तं श्रमणाऽधुना / देहि दीक्षां प्रसद्याऽद्य, संसाराऽर्णवतारणीम् // 7 // राज्यभारं निधाय स्वे, तनये नयशालिनि / परिग्रहं परित्यज्य, यावदायामि सत्वरम् // 8 // तावन्नेतो विहर्त्तव्यं, कृपां कृत्वा कृपालुना / इत्युक्त्वा सहसोत्तस्थौ, भविष्यभूपतिस्ततः // 9 // दीक्षां जिघृक्षु भूपालं, मत्वा सामन्तपुङ्गवैः / अन्योऽन्यमन्त्रकर्माणि, ससंतानवितेनिरे // 10 // वृद्धक्रमाऽनुसारेण, ज्येष्ठत्वाद्राज्यधूर्वहः / सुप्रभो भविता भूपः, स्वरूपेणाऽरिदुःसहः॥११॥ केनाऽप्युक्तं रणोत्साही, धरणेन्द्रो महाभुजः। महीभुजः प्रसङ्गेन, भविष्यति नृपोऽनुजः // 12 //

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170