Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 15
________________ बालशिक्षा-तृतीयः स्यादिप्रक्रमः। - अस्मिन् गणे एवमदन्ताः । तत्रापि सर्वो नाम कश्चित् । सर्वमतिक्रान्ताय सर्वाय । अतिसर्वाय । इत्थमेतेषां सज्ञारूपाणां गौणानां सर्वनामत्वं नहि। उभयशब्दः संख्याधिकारे द्रष्टव्यः । उभये इति नित्यं भाषायाम् । नाल्पादिविकल्पः । स्त्रियामुभयी। ___ क्लीबे अन्यस्य स्यमोः अन्यत् । २। हे अन्यत् । एवमन्यादयः पञ्च । तेषु डतर-डतमौ प्रत्ययौ।तदन्ताः शब्दा ग्राह्याः। यत्-तद्-एकेभ्यो द्वयोरेकस्य निर्धारणे डतरः । जातौ वा बहूनां डतमः। तौ च । किमः । यतरः। यतमः । ततरः । ततमः । एकतरः। एकतमः । कतरः । कतमः। इत्यादयो मन्तव्याः। गणकृत्यस्यानित्यत्वात् एकतरस्य नुरागमो न स्यात् । एकतरं कुलमस्ति । वृत् करणं गणसमाप्त्यर्थम् । त्वशब्दोऽन्यार्थः। नेमशब्दोऽर्द्धवाची। अल्पादित्वात्। नेमे नेमाः। समः सर्वसमानयोः। सिमः सर्वार्थोऽश्वार्थश्च । सर्वार्थादन्यत्र सिमे देशे यजति । सिमाय अश्वाय । अल्पादित्वात् । पूर्वे, पूर्वाः। विभाष्येते पूर्वादेः।' इति पूर्वस्मात् , पूर्वात्। पूर्वस्मिन् पूर्वे। इत्थं नव पूर्वादयः। एषु सप्तानां व्यवस्थायामसञ्ज्ञायां सर्वनामत्वम् । पूर्वोदयः शब्दाव्यवस्थायांगम्यमानायां असञ्ज्ञारूपाः सर्वनामसञ्ज्ञारूपा भवन्ति । इति । खाभिधेयापेक्षो विधिनियमो व्यवस्था । अन्यत्र दक्षिणाय गाथकाय देहि, प्रवीणायेत्यर्थः । दक्षिणायै द्विजाः स्पृहयन्ति । अनभिधानसञ्ज्ञा । सञ्ज्ञायां उत्तरा एव कुरवः । उत्तराय कुरुदेशाय । स्वशब्द आत्मन्यात्मीये धने ज्ञातौ च । अज्ञातिधनाख्यायामिति वचनात्। खाय ज्ञातये । स्वाय धनाय । अन्तरं बहियोगोपसंव्यानयोः। अन्तरस्मै गृहाय । नगरबाह्याय चाण्डालादिगृहायेत्यर्थः। अन्तरस्मै साटकाय । अन्यत्र ग्रामयोरन्तरात्तापस आयातः, मध्यादित्यर्थः। द्विशब्दः संख्याधिकारे त्यदादयश्च व्यञ्जनाधिकारे द्रष्टव्याः। 'तीयाद्वा वक्तव्यम्।' इति । द्वितीयस्मै, द्वितीयाय । द्वितीयस्मात्, द्वितीयात् । द्वितीयस्मिन् , द्वितीये। ख्यामादन्तेषु ज्ञेयः। एवं तृतीयोऽपि । पश्चालस्यापत्यं पाञ्चालः, पाश्चालौ। 'रूढानां बहुत्वे स्त्रियामपत्यप्रत्ययस्य।' इति लुकि वृद्ध्यभावे बहुत्वे पश्चालाः। पञ्चालान् । इत्यादि । स्त्रियां पञ्चाल्यः । क्लीबे पश्चालानि कुलानि । अनपत्येऽणि पञ्चालानामिमे भृत्याः पाञ्चालाः। पाञ्चालान् । इत्यादि ॥७॥ - एवं वैदेहः, वैदेही, विदेहाः। एवं आङ्ग-वाङ्ग-मागध कालिङ्गसौरमसादयः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 208